Ayodhyakanda, Sarga 1, Verse 1
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्
भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्
भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः
अयं केकयराजस्य पुत्रो वसति पुत्रक
त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव
श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतः
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्
मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ
युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः
स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः
तेषामपि महातेजा रामो रतिकरः पितुः
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः
गते च भरते रामो लक्ष्मणश्च महाबलः
पितरं देवसंकाशं पूजयामासतुस्तदा
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः
चकार रामो धर्मात्मा प्रियाणि च हितानि च
मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा
रामस्य शीलवृत्तेन सर्वे विषयवासिनः
स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते
कथंचिदुपकारेण कृतेनैकेन तुष्यति
न स्मरत्यपकाराणां शतमप्यात्मवत्तया
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः
कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः
धर्मार्थकामतत्त्वज्ञः स्मृतिमान्प्रतिभावनान्
लौकिके समयाचरे कृतकल्पो विशारदः
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः
आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित्
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्वपि
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्
आरोहे विनये चैव युक्तो वारणवाजिनाम्
धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः
अभियाता प्रहर्ता च सेनानयविशारदः
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी
न चावमन्ता भूतानां न च कालवशानुगः
एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः
संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः
बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः
तमेवंवृत्तसंपन्नमप्रधृष्य पराक्रमम्
लोकपालोपमं नाथमकामयत मेदिनी
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्