Balakanda, Sarga 76, Verse 1
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः
वरुणायाप्रमेयाय ददौ हस्ते ससायकम्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः
वरुणायाप्रमेयाय ददौ हस्ते ससायकम्
अभिवाद्य ततो रामो वसिष्ठ प्रमुखानृषीन्
पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः
जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी
अयोध्याभिमुखी सेना त्वया नाथेन पालिता
रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्
बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम्
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः
चोदयामास तां सेनां जगामाशु ततः पुरीम्
पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्
सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्
राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः
संपूर्णां प्राविशद्राजा जनौघैः समलंकृताम्
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः
ततः सीतां महाभागामूर्मिलां च यशस्विनीम्
कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः
मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा
रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः
कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः
तेषामतियशा लोके रामः सत्यपराक्रमः
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः
रामस्तु सीतया सार्धं विजहार बहूनृतून्
मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः
प्रिया तु सीता रामस्य दाराः पितृकृता इति
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो व्यवर्धत
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते
अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा
तस्य भूयो विशेषेण मैथिली जनकात्मजा
देवताभिः समा रूपे सीता श्रीरिव रूपिणी
तया स राजर्षिसुतोऽभिरामया; समेयिवानुत्तमराजकन्यया
अतीव रामः शुशुभेऽतिकामया; विभुः श्रिया विष्णुरिवामरेश्वरः