Balakanda, Sarga 75, Verse 1
श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा
गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा
गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्
श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव
अनुरुन्ध्यामहे ब्रह्मन्पितुरानृण्यमास्थितः
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव
अवजानामि मे तेजः पश्य मेऽद्य पराक्रमम्
इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्
शरं च प्रतिसंगृह्य हस्ताल्लघुपराक्रमः
आरोप्य स धनू रामः शरं सज्यं चकार ह
जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः
ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम्
इमां वा त्वद्गतिं राम तपोबलसमार्जितान्
लोकानप्रतिमान्वापि हनिष्यामि यदिच्छसि
न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः
मोघः पतति वीर्येण बलदर्पविनाशनः
वरायुधधरं राम द्रष्टुं सर्षिगणाः सुराः
पितामहं पुरस्कृत्य समेतास्तत्र संघशः
गन्धर्वाप्सरसश्चैव सिद्धचारणकिंनराः
यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम्
जडीकृते तदा लोके रामे वरधनुर्धरे
निर्वीर्यो जामदग्न्योऽसौ रमो राममुदैक्षत
तेजोभिर्हतवीर्यत्वाज्जामदग्न्यो जडीकृतः
रामं कमल पत्राक्षं मन्दं मन्दमुवाच ह
काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा
विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत्
सोऽहं गुरुवचः कुर्वन्पृथिव्यां न वसे निशाम्
इति प्रतिज्ञा काकुत्स्थ कृता वै काश्यपस्य ह
तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया
जहि ताञ्शरमुख्येन मा भूत्कालस्य पर्ययः
अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्
धनुषोऽस्य परामर्शात्स्वस्ति तेऽस्तु परंतप
एते सुरगणाः सर्वे निरीक्षन्ते समागताः
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्
रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम्
ततो वितिमिराः सर्वा दिशा चोपदिशस्तथा
सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च
ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः