Balakanda, Sarga 73, Verse 1
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः
आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम्
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः
आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम्
विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम्
आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम्
अथ राजा विदेहानां ददौ कन्याधनं बहु
गवां शतसहस्राणि बहूनि मिथिलेश्वरः
कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च
हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्
ददौ कन्या पिता तासां दासीदासमनुत्तमम्
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च
ददौ परमसंहृष्टः कन्याधनमनुत्तमम्
दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम्
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः
राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः
ऋषीन्सर्वान्पुरस्कृत्य जगाम सबलानुगः
गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम्
घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्
तान्दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः
किमिदं हृदयोत्कम्पि मनो मम विषीदति
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः
उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम्
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्
मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह
कम्पयन्मेदिनीं सर्वां पातयंश्च द्रुमाञ्शुभान्
तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः
भस्मना चावृतं सर्वं संमूढमिव तद्बलम्
वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा
ससंज्ञा इव तत्रासन्सर्वमन्यद्विचेतनम्
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः
ददर्श भीमसंकाशं जटामण्डलधारिणम्
कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्
ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः
स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम्
प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा हरम्
तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः
संगता मुनयः सर्वे संजजल्पुरथो मिथः
कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति
पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्
एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्
ऋषयो राम रामेति मधुरां वाचमब्रुवन्
प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्
रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत