Balakanda, Sarga 72, Verse 1
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्
तस्मिंस्तु दिवसे शूरो युधाजित्समुपेयिवान्
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्
तस्मिंस्तु दिवसे शूरो युधाजित्समुपेयिवान्
पुत्रः केकयराजस्य साक्षाद्भरतमातुलः
दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्
केकयाधिपती राजा स्नेहात्कुशलमब्रवीत्
येषां कुशलकामोऽसि तेषां संप्रत्यनामयम्
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते
तदर्थमुपयातोऽहमयोध्यां रघुनन्दन
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान्
मिथिलामुपयातास्तु त्वया सह महीपते
त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम्
अथ राजा दशरथः प्रियातिथिमुपस्थिम
दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत्
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः
ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः
भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत्
राजा दशरथो राजन्कृतकौतुकमङ्गलैः
पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्
इत्युक्तः परमोदारो वसिष्ठेन महात्मना
प्रत्युवाच महातेजा वाक्यं परमधर्मवित्
कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते
स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः
मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः
सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः
अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा
प्रवेशयामास सुतान्सर्वानृषिगणानपि
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्
इयं सीता मम सुता सहधर्मचरी तव
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना
लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया
प्रतीच्छ पाणिं गृह्णीष्व मा भूत्कालस्य पर्ययः
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन
शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना
सर्वे भवन्तः संयाश्च सर्वे सुचरितव्रताः
पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः
जनकस्य वचः श्रुत्वा पाणीन्पाणिभिरस्पृशन्
चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः
अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च
ऋषींश्चैव महात्मानः सह भार्या रघूत्तमाः
यथोक्तेन तथा चक्रुर्विवाहं विधिपूर्वकम्
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा
दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः
ननृतुश्चाप्सरःसंघा गन्धर्वाश्च जगुः कलम्
विवाहे रघुमुख्यानां तदद्भुतमिवाभवत्
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते
त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः
अथोपकार्यां जग्मुस्ते सदारा रघुनन्दनः
राजाप्यनुययौ पश्यन्सर्षिसंघः सबान्धवः