Balakanda, Sarga 71, Verse 1
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः
उवाच वचनं वीरं वसिष्ठसहितो नृपम्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः
उवाच वचनं वीरं वसिष्ठसहितो नृपम्
अचिन्त्यान्यप्रमेयानि कुलानि नरपुंगव
इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन
सदृशो धर्मसंबन्धः सदृशो रूपसंपदा
रामलक्ष्मणयो राजन्सीता चोर्मिलया सह
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम
भ्राता यवीयान्धर्मज्ञ एष राजा कुशध्वजः
अस्य धर्मात्मनो राजन्रूपेणाप्रतिमं भुवि
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः
वरयेम सुते राजंस्तयोरर्थे महात्मनोः
पुत्रा दशरथस्येमे रूपयौवनशालिनः
लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः
उभयोरपि राजेन्द्र संबन्धेनानुबध्यताम्
इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा
जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ
सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम्
एवं भवतु भद्रं वः कुशध्वजसुते इमे
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ
एकाह्ना राजपुत्रीणां चतसृणां महामुने
पाणीन्गृह्णन्तु चत्वारो राजपुत्रा महाबलाः
उत्तरे दिवसे ब्रह्मन्फल्गुनीभ्यां मनीषिणः
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा
इमान्यासनमुख्यानि आसेतां मुनिपुंगवौ
यथा दशरथस्येयं तथायोध्या पुरी मम
प्रभुत्वे नासित्संदेहो यथार्हं कर्तुमर्हथः
तथा ब्रुवति वैदेहे जनके रघुनन्दनः
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्
युवामसंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ
ऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम्
श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत्
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्
गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः
एकैकशो ददौ राजा पुत्रानुद्धिश्य धर्मतः
सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः
गवां शतसहस्राणि चत्वारि पुरुषर्षभः
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः
स सुतैः कृतगोदानैर्वृतश्च नृपतिस्तदा
लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः