Balakanda, Sarga 67, Verse 1
जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः
त्रिरात्रमुषित्वा मार्गे तेऽयोध्यां प्राविशन्पुरीम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः
त्रिरात्रमुषित्वा मार्गे तेऽयोध्यां प्राविशन्पुरीम्
ते राजवचनाद्दूता राजवेश्मप्रवेशिताः
ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम्
बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः
राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम्
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्
मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा
जनकस्त्वां महाराज पृच्छते सपुरःसरम्
पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः
कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा
राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः
सेयं मम सुता राजन्विश्वामित्रपुरःसरैः
यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः
तच्च राजन्धनुर्दिव्यं मध्ये भग्नं महात्मना
रामेण हि महाराज महत्यां जनसंसदि
अस्मै देया मया सीता वीर्यशुल्का महात्मने
प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि
सोपाध्यायो महाराज पुरोहितपुरस्कृतः
शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ
प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि
पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्
विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः
वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत्
गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना
संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति
यदि वो रोचते वृत्तं जनकस्य महात्मनः
पुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्ययः
मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः
सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः
मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः
ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः