Balakanda, Sarga 63, Verse 1
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया
लोभनं कौशिकस्येह काममोहसमन्वितम्
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया
लोभनं कौशिकस्येह काममोहसमन्वितम्
तथोक्ता साप्सरा राम सहस्राक्षेण धीमता
व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम्
अयं सुरपते घोरो विश्वामित्रो महामुनिः
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः
ततो हि मे भयं देव प्रसादं कर्तुमर्हसि
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्
मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम्
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्
तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम्
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्
लोभयामास ललिता विश्वामित्रं शुचिस्मिता
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्
संप्रहृष्टेन मनसा तत एनामुदैक्षत
अथ तस्य च शब्देन गीतेनाप्रतिमेन च
दर्शनेन च रम्भाया मुनिः संदेहमागतः
सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुंगवः
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे
ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः
अशक्नुवन्धारयितुं कोपं संतापमागतः
तस्य शापेन महता रम्भा शैली तदाभवत्
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः
कोपेन स महातेजास्तपोऽपहरणे कृते
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः