Balakanda, Sarga 60, Verse 1
विश्वामित्रो महात्माथ प्रस्थितान्प्रेक्ष्य तानृषीन्
अब्रवीन्नरशार्दूल सर्वांस्तान्वनवासिनः
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
विश्वामित्रो महात्माथ प्रस्थितान्प्रेक्ष्य तानृषीन्
अब्रवीन्नरशार्दूल सर्वांस्तान्वनवासिनः
महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः
पश्चिमायां विशालायां पुष्करेषु महात्मनः
सुखं तपश्चरिष्यामः परं तद्धि तपोवनम्
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः
तप उग्रं दुराधर्षं तेपे मूलफलाशनः
एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह
प्रनष्टे तु पशौ विप्रो राजानमिदमब्रवीत्
पशुरद्य हृतो राजन्प्रनष्टस्तव दुर्नयात्
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ
आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते
उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः
देशाञ्जनपदांस्तांस्तान्नगराणि वनानि च
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः
स पुत्रसहितं तात सभार्यं रघुनन्दन
भृगुतुङ्गे समासीनमृचीकं संददर्श ह
तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः
गवां शतसहस्रेण विक्रिणीषे सुतं यदि
पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव
सर्वे परिसृता देशा यज्ञियं न लभे पशुम्
दातुमर्हसि मूल्येन सुतमेकमितो मम
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः
नाहं ज्येष्ठं नरश्रेष्ठं विक्रीणीयां कथंचन
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्
उवाच नरशार्दूलमम्बरीषं तपस्विनी
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः
मातॄणां च कनीयांसस्तस्माद्रक्षे कनीयसम्
उक्तवाक्ये मुनौ तस्मिन्मुनिपत्न्यां तथैव च
शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्
विक्रीतं मध्यमं मन्ये राजन्पुत्रं नयस्व माम्
गवां शतसहस्रेण शुनःशेपं नरेश्वरः
गृहीत्वा परमप्रीतो जगाम रघुनन्दन
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः
शुनःशेपं महातेजा जगामाशु महायशाः