Balakanda, Sarga 59, Verse 1
तपोबलहतान्कृत्वा वासिष्ठान्समहोदयान्
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
तपोबलहतान्कृत्वा वासिष्ठान्समहोदयान्
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः
स्वेनानेन शरीरेण देवलोकजिगीषया
यथायं स्वशरीरेण देवलोकं गमिष्यति
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह
विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः
ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम्
अयं कुशिकदायादो मुनिः परमकोपनः
यदाह वचनं सम्यगेतत्कार्यं न संशयः
अग्निकल्पो हि भगवाञ्शापं दास्यति रोषितः
तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम्
गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते
एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा
याजकाश्च महातेजा विश्वामित्रोऽभवत्क्रतौ
ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि
ततः कालेन महता विश्वामित्रो महातपाः
चकारावाहनं तत्र भागार्थं सर्वदेवताः
नाह्यागमंस्तदाहूता भागार्थं सर्वदेवताः
ततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः
स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर
एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा
दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप
स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्
राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज
उक्तवाक्ये मुनौ तस्मिन्सशरीरो नरेश्वरः
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा
देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः
सह सर्वैः सुरगणैरिदं वचनमब्रवीत्
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः
गुरुशापहतो मूढ पत भूमिमवाक्शिराः
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः
रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्
ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः
सृजन्दक्षिणमार्गस्थान्सप्तर्षीनपरान्पुनः
नक्षत्रमालामपरामसृजत्क्रोधमूर्छितः
दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः
दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे
ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः
विश्वामित्रं महात्मानमूचुः सानुनयं वचः
अयं राजा महाभाग गुरुशापपरिक्षतः
सशरीरो दिवं यातुं नार्हत्येव तपोधन
तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः
अब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः
आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे
सर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः
मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्
एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः
गगने तान्यनेकानि वैश्वानरपथाद्बहिः