Balakanda, Sarga 58, Verse 1
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः
अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः
अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम्
इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्
शरणं ते भविष्यामि मा भैषीर्नृपपुंगव
अहमामन्त्रये सर्वान्महर्षीन्पुण्यकर्मणः
यज्ञसाह्यकरान्राजंस्ततो यक्ष्यसि निर्वृतः
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते
अनेन सह रूपेण सशरीरो गमिष्यसि
हस्तप्राप्तमहं मन्ये स्वर्गं तव नरेश्वर
यस्त्वं कौशिकमागम्य शरण्यं शरणं गतः
एवमुक्त्वा महातेजाः पुत्रान्परमधार्मिकान्
व्यादिदेश महाप्राज्ञान्यज्ञसंभारकारणात्
सर्वाञ्शिष्यान्समाहूय वाक्यमेतदुवाच ह
सर्वानृषिवरान्वत्सा आनयध्वं ममाज्ञया
सशिष्यान्सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्
यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः
तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम्
तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः
ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम्
ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम्
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः
सर्वदेशेषु चागच्छन्वर्जयित्वा महोदयम्
वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम्
यदाह वचनं सर्वं शृणु त्वं मुनिपुंगव
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम्
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः
एतद्वचनं नैष्ठुर्यमूचुः संरक्तलोचनाः
वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः
तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः
क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्
यद्दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः
अद्य ते कालपाशेन नीता वैवस्वतक्षयम्
सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः
श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्
महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्
दूषिटः सर्वलोकेषु निषादत्वं गमिष्यति
प्राणातिपातनिरतो निरनुक्रोशतां गतः
दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति
एतावदुक्त्वा वचनं विश्वामित्रो महातपाः
विरराम महातेजा ऋषिमध्ये महामुनिः