Balakanda, Sarga 56, Verse 1
ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना
स दक्षिणां दिशं गत्वा महिष्या सह राघव
तताप परमं घोरं विश्वामित्रो महातपाः
फलमूलाशनो दान्तश्चचार परमं तपः
अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः
हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः
पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्
जिता राजर्षिलोकास्ते तपसा कुशिकात्मज
अनेन तपसा त्वां हि राजर्षिरिति विद्महे
एवमुक्त्वा महातेजा जगाम सह दैवतैः
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः
विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः
दुःखेन महताविष्टः समन्युरिदमब्रवीत्
तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम्
एवं निश्चित्य मनसा भूय एव महातपाः
तपश्चचार काकुत्स्थ परमं परमात्मवान्
एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः
त्रिशङ्कुरिति विख्यात इक्ष्वाकु कुलनन्दनः
तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव
गच्छेयं स्वशरीरेण देवानां परमां गतिम्
स वसिष्ठं समाहूय कथयामास चिन्तितम्
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्
वसिष्ठा दीर्घ तपसस्तपो यत्र हि तेपिरे
त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम्
वसिष्ठपुत्रान्ददृशे तप्यमानान्यशस्विनः
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्
अभिवाद्यानुपूर्व्येण ह्रिया किंचिदवाङ्मुखः
अब्रवीत्सुमहातेजाः सर्वानेव कृताञ्जलिः
शरणं वः प्रपद्येऽहं शरण्याञ्शरणागतः
प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना
यष्टुकामो महायज्ञं तदनुज्ञातुमर्थथ
गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये
शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः
सशरीरो यथाहं हि देवलोकमवाप्नुयाम्
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः
गुरुपुत्रानृते सर्वान्नाहं पश्यामि कांचन
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः
तस्मादनन्तरं सर्वे भवन्तो दैवतं मम