Balakanda, Sarga 54, Verse 1
ततस्तानाकुलान्दृष्ट्वा विश्वामित्रास्त्रमोहितान्
वसिष्ठश्चोदयामास कामधुक्सृज योगतः
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्तानाकुलान्दृष्ट्वा विश्वामित्रास्त्रमोहितान्
वसिष्ठश्चोदयामास कामधुक्सृज योगतः
तस्या हुम्भारवाज्जाताः काम्बोजा रविसंनिभाः
ऊधसस्त्वथ संजाताः पह्लवाः शस्त्रपाणयः
योनिदेशाच्च यवनः शकृद्देशाच्छकास्तथा
रोमकूपेषु मेच्छाश्च हरीताः सकिरातकाः
तैस्तन्निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात्
सपदातिगजं साश्वं सरथं रघुनन्दन
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना
विश्वामित्रसुतानां तु शतं नानाविधायुधम्
अभ्यधावत्सुसंक्रुद्धं वसिष्ठं जपतां वरम्
हुंकारेणैव तान्सर्वान्निर्ददाह महानृषिः
ते साश्वरथपादाता वसिष्ठेन महात्मना
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा
दृष्ट्वा विनाशितान्पुत्रान्बलं च सुमहायशाः
सव्रीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा
संदुर इव निर्वेगो भग्नदंष्ट्र इवोरगः
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः
हतदर्पो हतोत्साहो निर्वेदं समपद्यत
स पुत्रमेकं राज्याय पालयेति नियुज्य च
पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत
स गत्वा हिमवत्पार्श्वं किंनरोरगसेवितम्
महादेवप्रसादार्थं तपस्तेपे महातपाः
केनचित्त्वथ कालेन देवेशो वृषभध्वजः
दर्शयामास वरदो विश्वामित्रं महामुनिम्
किमर्थं तप्यसे राजन्ब्रूहि यत्ते विवक्षितम्
वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम्
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः
प्रणिपत्य महादेवमिदं वचनमब्रवीत्
यदि तुष्टो महादेव धनुर्वेदो ममानघ
साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम्
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु
गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ
तव प्रसादाद्भवतु देवदेव ममेप्सितम्
एवमस्त्विति देवेशो वाक्यमुक्त्वा दिवं गतः
प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः
दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा
विवर्धमानो वीर्येण समुद्र इव पर्वणि
हतमेव तदा मेने वसिष्ठमृषिसत्तमम्
ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः
यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा
उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः
वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः
विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः
मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम्
वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर्मुहुः
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्
आश्रमं चिरसंवृद्धं यद्विनाशितवानसि
दुराचारोऽसि यन्मूढ तस्मात्त्वं न भविष्यसि
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः
विधूम इव कालाग्निर्यमदण्डमिवापरम्