Balakanda, Sarga 48, Verse 1
अफलस्तु ततः शक्रो देवानग्निपुरोगमान्
अब्रवीत्त्रस्तवदनः सर्षिसंघान्सचारणान्
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
अफलस्तु ततः शक्रो देवानग्निपुरोगमान्
अब्रवीत्त्रस्तवदनः सर्षिसंघान्सचारणान्
कुर्वता तपसो विघ्नं गौतमस्य महात्मनः
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्
अफलोऽस्मि कृतस्तेन क्रोधात्सा च निराकृता
शापमोक्षेण महता तपोऽस्यापहृतं मया
तन्मां सुरवराः सर्वे सर्षिसंघाः सचारणाः
सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ
शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः
पितृदेवानुपेत्याहुः सह सर्वैर्मरुद्गणैः
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत
अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति
भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेदयन्
तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः
अफलान्भुञ्जते मेषान्फलैस्तेषामयोजयन्
इन्द्रस्तु मेषवृषणस्तदा प्रभृति राघव
गौतमस्य प्रभावेन तपसश्च महात्मनः
तदागच्छ महातेज आश्रमं पुण्यकर्मणः
तारयैनां महाभागामहल्यां देवरूपिणीम्
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः
विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह
ददर्श च महाभागां तपसा द्योतितप्रभाम्
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव
धूमेनाभिपरीताङ्गीं पूर्णचन्द्रप्रभामिव
सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव
मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव
स हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह
त्रयाणामपि लोकानां यावद्रामस्य दर्शनम्
राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ
पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिता
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा
पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनैः
गन्धर्वाप्सरसां चापि महानासीत्समागमः
साधु साध्विति देवास्तामहल्यां समपूजयन्
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्
गौतमोऽपि महातेजा अहल्यासहितः सुखी
रामं संपूज्य विधिवत्तपस्तेपे महातपाः
रामोऽपि परमां पूजां गौतमस्य महामुनेः
सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः