Valmiki Ramayana

Balakanda, Sarga 44

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Balakanda, Sarga 44, Verse 1

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः

विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 2

अत्यद्भुतमिदं ब्रह्मन्कथितं परमं त्वया

गङ्गावतरणं पुण्यं सागरस्य च पूरणम्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 3

तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा

जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 4

ततः प्रभाते विमले विश्वामित्रं महामुनिम्

उवाच राघवो वाक्यं कृताह्निकमरिंदमः

Valmiki Ramayana

Balakanda, Sarga 44, Verse 5

गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्

क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः

इमां चिन्तयतः सर्वां निखिलेन कथां तव

Valmiki Ramayana

Balakanda, Sarga 44, Verse 6

तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्

नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्

भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता

Valmiki Ramayana

Balakanda, Sarga 44, Verse 7

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः

संतारं कारयामास सर्षिसंघः सराघवः

Valmiki Ramayana

Balakanda, Sarga 44, Verse 8

उत्तरं तीरमासाद्य संपूज्यर्षिगणं तथ

गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 9

ततो मुनिवरस्तूर्णं जगाम सहराघवः

विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा

Valmiki Ramayana

Balakanda, Sarga 44, Verse 10

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्

पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 11

कतरो राजवंशोऽयं विशालायां महामुने

श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे

Valmiki Ramayana

Balakanda, Sarga 44, Verse 12

तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः

आख्यातुं तत्समारेभे विशालस्य पुरातनम्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 13

श्रूयतां राम शक्रस्य कथां कथयतः शुभाम्

अस्मिन्देशे हि यद्वृत्तं शृणु तत्त्वेन राघव

Valmiki Ramayana

Balakanda, Sarga 44, Verse 14

पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः

अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः

Valmiki Ramayana

Balakanda, Sarga 44, Verse 15

ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम्

अमरा निर्जराश्चैव कथं स्याम निरामयाः

Valmiki Ramayana

Balakanda, Sarga 44, Verse 16

तेषां चिन्तयतां राम बुद्धिरासीद्विपश्चिताम्

क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै

Valmiki Ramayana

Balakanda, Sarga 44, Verse 17

ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्

मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः

Valmiki Ramayana

Balakanda, Sarga 44, Verse 18

अथ धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः

अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः

उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 19

षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्

असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः

Valmiki Ramayana

Balakanda, Sarga 44, Verse 20

न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः

अप्रतिग्रहणाच्चैव तेन साधारणाः स्मृताः

Valmiki Ramayana

Balakanda, Sarga 44, Verse 21

वरुणस्य ततः कन्या वारुणी रघुनन्दन

उत्पपात महाभागा मार्गमाणा परिग्रहम्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 22

दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्

अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 23

असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः

हृष्टाः प्रमुदिताश्चासन्वारुणी ग्रहणात्सुराः

Valmiki Ramayana

Balakanda, Sarga 44, Verse 24

उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्

उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 25

अथ तस्य कृते राम महानासीत्कुलक्षयः

अदितेस्तु ततः पुत्रा दितेः पुत्राण सूदयन्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 26

अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे

तस्मिन्घोरे महायुद्धे दैतेयादित्ययोर्भृशम्

Valmiki Ramayana

Balakanda, Sarga 44, Verse 27

निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः

शशास मुदितो लोकान्सर्षिसंघान्सचारणान्