Balakanda, Sarga 35, Verse 1
उक्त वाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ
प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुंगवम्
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
उक्त वाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ
प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुंगवम्
धर्मयुक्तमिदं ब्रह्मन्कथितं परमं त्वया
दुहितुः शैलराजस्य ज्येष्ठाय वक्तुमर्हसि
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम्
त्रीन्पथो हेतुना केन पावयेल्लोकपावनी
कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः
दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम्
न चापि तनयो राम तस्यामासीत्परंतप
ततो देवाः समुद्विग्नाः पितामहपुरोगमाः
यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन्
देवदेव महादेव लोकस्यास्य हिते रत
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय
रक्ष सर्वानिमाँल्लोकान्नालोकं कर्तुमर्हसि
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः
बाढमित्यब्रवीत्सर्वान्पुनश्चेदमुवाच ह
धारयिष्याम्यहं तेजस्तेजस्येव सहोमया
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम्
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम्
यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति
एवमुक्तः सुरपतिः प्रमुमोच महीतले
तेजसा पृथिवी येन व्याप्ता सगिरिकानना
ततो देवाः पुनरिदमूचुश्चाथ हुताशनम्
प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः
तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः
दिव्यं शरवणं चैव पावकादित्यसंनिभम्
यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः
अथोमां च शिवं चैव देवाः सर्षि गणास्तदा
पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः
अथ शैल सुता राम त्रिदशानिदमब्रवीत्
समन्युरशपत्सर्वान्क्रोधसंरक्तलोचना
यस्मान्निवारिता चैव संगता पुत्रकाम्यया
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ
अद्य प्रभृति युष्माकमप्रजाः सन्तु पत्नयः
एवमुक्त्वा सुरान्सर्वाञ्शशाप पृथिवीमपि
अवने नैकरूपा त्वं बहुभार्या भविष्यसि
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृता
प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती
तान्सर्वान्व्रीडितान्दृष्ट्वा सुरान्सुरपतिस्तदा
गमनायोपचक्राम दिशं वरुणपालिताम्
स गत्वा तप आतिष्ठत्पार्श्वे तस्योत्तरे गिरेः
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः
एष ते विस्तरो राम शैलपुत्र्या निवेदितः
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः