Balakanda, Sarga 34, Verse 1
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम्
गमनं रोचयामास वाक्यं चेदमुवाच ह
अयं शोणः शुभजलो गाधः पुलिनमण्डितः
कतरेण पथा ब्रह्मन्संतरिष्यामहे वयम्
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम्
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्
बभूवुर्मुदिताः सर्वे मुनयः सहराघवाः
तस्यास्तीरे ततश्चक्रुस्ते आवासपरिग्रहम्
ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः
विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः
विश्वामित्रं महात्मानं परिवार्य समन्ततः
संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत्
भगवञ्श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम्
चोदितो राम वाक्येन विश्वामित्रो महामुनिः
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान्
तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि
या मेरुदुहिता राम तयोर्माता सुमध्यमा
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता
उमा नाम द्वितीयाभूत्कन्या तस्यैव राघव
अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम्
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम्
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया
प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः
गङ्गामादाय तेऽगच्छन्कृतार्थेनान्तरात्मना
या चान्या शैलदुहिता कन्यासीद्रघुनन्दन
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्
एते ते शैल राजस्य सुते लोकनमस्कृते
गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव
एतत्ते धर्ममाख्यातं यथा त्रिपथगा नदी
खं गता प्रथमं तात गतिं गतिमतां वर