Balakanda, Sarga 33, Verse 1
कृतोद्वाहे गते तस्मिन्ब्रह्मदत्ते च राघव
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
कृतोद्वाहे गते तस्मिन्ब्रह्मदत्ते च राघव
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्
इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम्
उवाच परमप्रीतः कुशो ब्रह्मसुतस्तदा
पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम्
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम्
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम्
कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः
कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन
पूर्वजा भगिनी चापि मम राघव सुव्रता
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी
कौशिकी परमोदारा सा प्रवृत्ता महानदी
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता
लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम
ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्
भगिन्याः स्नेहसंयुक्तः कौशिक्या रघुनन्दन
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता
पतिव्रता महाभागा कौशिकी सरितां वरा
अहं हि नियमाद्राम हित्वा तां समुपागतः
सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा
एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि
गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम
निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः
निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन
शनैर्वियुज्यते संध्या नभो नेत्रैरिवावृतम्
नक्षत्रतारागहनं ज्योतिर्भिरवभासते
उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः
ह्लादयन्प्राणिनां लोके मनांसि प्रभया विभो
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः
यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः
एवमुक्त्वा महातेजा विरराम महामुनिः
साधु साध्विति तं सर्वे मुनयो ह्यभ्यपूजयन्
रामोऽपि सह सौमित्रिः किंचिदागतविस्मयः
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते