Balakanda, Sarga 30, Verse 1
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ
विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम्
ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ
इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ
आज्ञापय यथेष्टं वै शासनं करवाव किम्
एवमुक्ते ततस्ताभ्यां सर्व एव महर्षयः
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन्
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति
यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम्
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः
अप्रमेयबलं घोरं मखे परमभास्वरम्
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः
कर्तुमारोपणं शक्ता न कथंचन मानुषाः
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः
न शेकुरारोपयितुं राजपुत्रा महाबलाः
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम्
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः
याचितं नरशार्दूल सुनाभं सर्वदैवतैः
एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा
सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम्
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्
प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम्
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे
तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम्
शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम्
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः
अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम्
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे
वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः
तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः
रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः
अथ रामो महातेजा विश्वामित्रं महामुनिम्
पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः
भगवन्को न्वयं देशः समृद्धवनशोभितः
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः
चोदितो रामवाक्येन कथयामास सुव्रतः
तस्य देशस्य निखिलमृषिमध्ये महातपाः