Balakanda, Sarga 29, Verse 1
अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः
भगवञ्श्रोतुमिच्छावो यस्मिन्काले निशाचरौ
संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम्
एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ
अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम्
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति
तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ
अनिद्रौ षडहोरात्रं तपोवनमरक्षताम्
उपासां चक्रतुर्वीरौ यत्तौ परमधन्विनौ
ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ
अथ काले गते तस्मिन्षष्ठेऽहनि समागते
सौमित्रमब्रवीद्रामो यत्तो भव समाहितः
रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया
प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता
मन्त्रवच्च यथान्यायं यज्ञोऽसौ संप्रवर्तते
आकाशे च महाञ्शब्दः प्रादुरासीद्भयानकः
आवार्य गगनं मेघो यथा प्रावृषि निर्गतः
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम्
मारीचश्च सुबाहुश्च तयोरनुचरास्तथा
आगम्य भीमसंकाशा रुधिरौघानवासृजन्
तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः
लक्ष्मणं त्वभिसंप्रेक्ष्य रामो वचनमब्रवीत्
पश्य लक्ष्मण दुर्वृत्तान्राक्षसान्पिशिताशनान्
मानवास्त्रसमाधूताननिलेन यथाघनान्
मानवं परमोदारमस्त्रं परमभास्वरम्
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः
स तेन परमास्त्रेण मानवेन समाहितः
संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे
विचेतनं विघूर्णन्तं शीतेषुबलपीडितम्
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत्
पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम्
मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते
इमानपि वधिष्यामि निर्घृणान्दुष्टचारिणः
राक्षसान्पापकर्मस्थान्यज्ञघ्नान्रुधिराशनान्
विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः
सुबाहुरसि चिक्षेप स विद्धः प्रापतद्भुवि
शेषान्वायव्यमादाय निजघान महायशाः
राघवः परमोदारो मुनीनां मुदमावहन्
स हत्वा राक्षसान्सर्वान्यज्ञघ्नान्रघुनन्दनः
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत्
कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया
सिद्धाश्रममिदं सत्यं कृतं राम महायशः