Balakanda, Sarga 27, Verse 1
प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत्
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत्
गृहीतास्त्रोऽस्मि भगवन्दुराधर्षः सुरैरपि
अस्त्राणां त्वहमिच्छामि संहारं मुनिपुंगव
एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः
संहारं व्याजहाराथ धृतिमान्सुव्रतः शुचिः
सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्
लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ
पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ
ज्योतिषं कृशनं चैव नैराश्य विमलावुभौ
यौगन्धरहरिद्रौ च दैत्यप्रमथनौ तथा
पित्र्यं सौमनसं चैव विधूतमकरावुभौ
करवीरकरं चैव धनधान्यौ च राघव
कामरूपं कामरुचिं मोहमावरणं तथा
जृम्भकं सर्वनाभं च सन्तानवरणौ तथा
कृशाश्वतनयान्राम भास्वरान्कामरूपिणः
प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव
दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः
रामं प्राञ्जलयो भूत्वाब्रुवन्मधुरभाषिणः
इमे स्म नरशार्दूल शाधि किं करवाम ते
गम्यतामिति तानाह यथेष्टं रघुनन्दनः
मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ
अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम्
एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम्
स च तान्राघवो ज्ञात्वा विश्वामित्रं महामुनिम्
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्
किं न्वेतन्मेघसंकाशं पर्वतस्याविदूरतः
वृक्षषण्डमितो भाति परं कौतूहलं हि मे
दर्शनीयं मृगाकीर्णं मनोहरमतीव च
नानाप्रकारैः शकुनैर्वल्गुभाषैरलंकृतम्
निःसृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात्
अनया त्ववगच्छामि देशस्य सुखवत्तया
सर्वं मे शंस भगवन्कस्याश्रमपदं त्विदम्
संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः