Balakanda, Sarga 24, Verse 1
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्
अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगव
कथं नागसहस्रस्य धारयत्यबला बलम्
विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा
वरदानकृतं वीर्यं धारयत्यबला बलम्
पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान्
अनपत्यः शुभाचारः स च तेपे महत्तपः
पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा
कन्यारत्नं ददौ राम ताटकां नाम नामतः
ददौ नागसहस्रस्य बलं चास्याः पितामहः
न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः
तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम्
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्
कस्यचित्त्वथ कालल्स्य यक्षी पुत्रं व्यजायत
मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत्
सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम्
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः
अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान्
पुरुषादी महायक्षी विरूपा विकृतानना
इदं रूपमपहाय दारुणं रूपमस्तु ते
सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता
देशमुत्सादयत्येनमगस्त्यचरितं शुभम्
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम्
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्
न ह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान्
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन
न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम
चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना
राज्यभारनियुक्तानामेष धर्मः सनातनः
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत्
विष्णुना च पुरा राम भृगुपत्नी दृढव्रता
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता
एतैश्चान्यैश्च बहुभी राजपुत्रमहात्मभिः
अधर्मनिरता नार्यो हताः पुरुषसत्तमैः