Balakanda, Sarga 21, Verse 1
तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम्
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम्
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च
पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम्
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम्
ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना
ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा
विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम्
पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनः
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि
विश्वामित्रो ययावग्रे ततो रामो महायशाः
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात्
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश
विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ
बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती
स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे
रामेति मधुरा वाणीं विश्वामित्रोऽभ्यभाषत
गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा
न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः
न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन
त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये
नोत्तरे प्रतिपत्तव्यो समो लोके तवानघ
एतद्विद्याद्वये लब्धे भविता नास्ति ते समः
बला चातिबला चैव सर्वज्ञानस्य मातरौ
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम
बलामतिबलां चैव पठतः पथि राघव
विद्याद्वयमधीयाने यशश्चाप्यतुलं भुवि
पितामहसुते ह्येते विद्ये तेजःसमन्विते
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक
कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः
तपसा संभृते चैते बहुरूपे भविष्यतः
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः
विद्यासमुदितो रामः शुशुभे भूरिविक्रमः
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे
ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः