Balakanda, Sarga 20, Verse 1
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्
समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्
समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम्
पूर्ह्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि
रागवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः
यदिदं ते क्षमं राजन्गमिष्यामि यथागतम्
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः
चचाल वसुधा कृत्स्ना विवेश च भयं सुरान्
त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्
इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः
धृतिमान्सुव्रतः श्रीमान्न धर्मं हातुमर्हसि
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि
संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव
इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा
एष विग्रहवान्धर्म एष वीर्यवतां वरः
एष बुद्ध्याधिको लोके तपसश्च परायणम्
एषोऽस्त्रान्विविधान्वेत्ति त्रैलोक्ये सचराचरे
नैनमन्यः पुमान्वेत्ति न च वेत्स्यन्ति केचन
न देवा नर्षयः केचिन्नासुरा न च राक्षसाः
गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः
नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे
ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम्
पञ्चाशतं सुताँल्लेभे जया नाम वरान्पुरा
वधायासुरसैन्यानाममेयान्कामरूपिणः
सुप्रभाजनयच्चापि पुत्रान्पञ्चाशतं पुनः
संहारान्नाम दुर्धर्षान्दुराक्रामान्बलीयसः
तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः
अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्
एवं वीर्यो महातेजा विश्वामित्रो महातपाः
न रामगमने राजन्संशयं गन्तुमर्हसि