Balakanda, Sarga 17, Verse 1
निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मनः
प्रतिगृह्य सुरा भागान्प्रतिजग्मुर्यथागतम्
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मनः
प्रतिगृह्य सुरा भागान्प्रतिजग्मुर्यथागतम्
समाप्तदीक्षानियमः पत्नीगणसमन्वितः
प्रविवेश पुरीं राजा सभृत्यबलवाहनः
यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः
मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुंगवम्
गतेषु पृथिवीशेषु राजा दशरथः पुनः
प्रविवेश पुरीं श्रीमान्पुरस्कृत्य द्विजोत्तमान्
शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितः
अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता
कौसल्याजनयद्रामं दिव्यलक्षणसंयुतम्
विष्णोरर्धं महाभागं पुत्रमिक्ष्वाकुनन्दनम्
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा
यथा वरेण देवानामदितिर्वज्रपाणिना
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः
साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ
वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक्
गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः
अतीत्यैकादशाहं तु नाम कर्म तथाकरोत्
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्
सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा
वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः
बभूव भूयो भूतानां स्वयम्भूरिव संमतः
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः
सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः
तेषामपि महातेजा रामः सत्यपराक्रमः
बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः
लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः
न च तेन विना निद्रां लभते पुरुषोत्तमः
मृष्टमन्नमुपानीतमश्नाति न हि तं विना
यदा हि हयमारूढो मृगयां याति राघवः
तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन्
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः
प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः
बभूव परमप्रीतो देवैरिव पितामहः
ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः
अथ राजा दशरथस्तेषां दारक्रियां प्रति
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः
अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम्
तच्छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः
संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा
प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा
तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः
प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः
स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्
प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्
वसिष्ठं च समागम्य कुशलं मुनिपुंगवः
ऋषींश्च तान्यथा न्यायं महाभागानुवाच ह