Valmiki Ramayana

Balakanda, Sarga 16

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Balakanda, Sarga 16, Verse 1

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः

उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम्

Valmiki Ramayana

Balakanda, Sarga 16, Verse 2

सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः

विष्णोः सहायान्बलिनः सृजध्वं कामरूपिणः

Valmiki Ramayana

Balakanda, Sarga 16, Verse 3

मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे

नयज्ञान्बुद्धिसंपन्नान्विष्णुतुल्यपराक्रमान्

Valmiki Ramayana

Balakanda, Sarga 16, Verse 4

असंहार्यानुपायज्ञान्दिव्यसंहननान्वितान्

सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव

Valmiki Ramayana

Balakanda, Sarga 16, Verse 5

अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च

यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च

Valmiki Ramayana

Balakanda, Sarga 16, Verse 6

किंनरीणां च गात्रेषु वानरीणां तनूषु च

सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्

Valmiki Ramayana

Balakanda, Sarga 16, Verse 7

ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्

जनयामासुरेवं ते पुत्रान्वानररूपिणः

Valmiki Ramayana

Balakanda, Sarga 16, Verse 8

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः

चारणाश्च सुतान्वीरान्ससृजुर्वनचारिणः

Valmiki Ramayana

Balakanda, Sarga 16, Verse 9

ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः

अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः

Valmiki Ramayana

Balakanda, Sarga 16, Verse 10

ते गजाचलसंकाशा वपुष्मन्तो महाबलाः

ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे

Valmiki Ramayana

Balakanda, Sarga 16, Verse 11

यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः

अजायत समस्तेन तस्य तस्य सुतः पृथक्

Valmiki Ramayana

Balakanda, Sarga 16, Verse 12

गोलाङ्गूलीषु चोत्पन्नाः केचित्संमतविक्रमाः

ऋक्षीषु च तथा जाता वानराः किंनरीषु च

Valmiki Ramayana

Balakanda, Sarga 16, Verse 13

शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः

नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः

Valmiki Ramayana

Balakanda, Sarga 16, Verse 14

विचालयेयुः शैलेन्द्रान्भेदयेयुः स्थिरान्द्रुमान्

क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम्

Valmiki Ramayana

Balakanda, Sarga 16, Verse 15

दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम्

नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान्

Valmiki Ramayana

Balakanda, Sarga 16, Verse 16

गृह्णीयुरपि मातङ्गान्मत्तान्प्रव्रजतो वने

नर्दमानांश्च नादेन पातयेयुर्विहंगमान्

Valmiki Ramayana

Balakanda, Sarga 16, Verse 17

ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्

शतं शतसहस्राणि यूथपानां महात्मनाम्

बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन्हरीन्

Valmiki Ramayana

Balakanda, Sarga 16, Verse 18

अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः

अन्ये नानाविधाञ्शैलान्काननानि च भेजिरे

Valmiki Ramayana

Balakanda, Sarga 16, Verse 19

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्

भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः

Valmiki Ramayana

Balakanda, Sarga 16, Verse 20

तैर्मेघवृन्दाचलकूटकल्पै;र्महाबलैर्वानरयूथपालैः

बभूव भूर्भीमशरीररूपैः; समावृता रामसहायहेतोः