Balakanda, Sarga 12, Verse 1
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च
अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्
यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव
यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम्
भवान्स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान्
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः
तथेति च स राजानमब्रवीद्द्विजसत्तमः
करिष्ये सर्वमेवैतद्भवता यत्समर्थितम्
ततोऽब्रवीद्द्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान्
स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान्
कर्मान्तिकाञ्शिल्पकारान्वर्धकीन्खनकानपि
गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान्
तथा शुचीञ्शास्त्रविदः पुरुषान्सुबहुश्रुतान्
यज्ञकर्म समीहन्तां भवन्तो राजशासनात्
इष्टका बहुसाहस्री शीघ्रमानीयतामिति
औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः
तथा पौरजनस्यापि कर्तव्या बहुविस्तराः
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः
तथा जानपदस्यापि जनस्य बहुशोभनम्
दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि
यज्ञकर्मसु येऽव्यग्राः पुरुषाः शिल्पिनस्तथा
तेषामपि विशेषेण पूजा कार्या यथाक्रमम्
यथा सर्वं सुविहितं न किंचित्परिहीयते
तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्
यथोक्तं तत्करिष्यामो न किंचित्परिहास्यते
ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत्
निमन्त्रयस्य नृपतीन्पृथिव्यां ये च धार्मिकाः
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैव सहस्रशः
समानयस्व सत्कृत्य सर्वदेशेषु मानवान्
मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम्
निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम्
तमानय महाभागं स्वयमेव सुसत्कृतम्
पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते
तथा काशिपतिं स्निग्धं सततं प्रियवादिनम्
सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह
तथा केकयराजानं वृद्धं परमधार्मिकम्
श्वशुरं राजसिंहस्य सपुत्रं तमिहानय
अङ्गेश्वरं महाभागं लोमपादं सुसत्कृतम्
वयस्यं राजसिंहस्य तमानय यशस्विनम्
प्राचीनान्सिन्धुसौवीरान्सौराष्ठ्रेयांश्च पार्थिवान्
दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले
तानानय यथाक्षिप्रं सानुगान्सहबान्धवान्
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा
व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान्
स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात्
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः
ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्
ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वान्पुनरब्रवीत्
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा
अवज्ञया कृतं हन्याद्दातारं नात्र संशयः
ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह
ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत्
उपयाता नरव्याघ्र राजानस्तव शासनात्