Balakanda, Sarga 11, Verse 1
ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत्
ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम्
यज्ञाय वरयामास संतानार्थं कुलस्य वै
तथेति च स राजानमुवाच च सुसत्कृतः
संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम्
ततो राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम्
सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः
समानयत्स तान्विप्रान्समस्तान्वेदपारगान्
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः
तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत्
मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा
ऋषिपुत्रप्रभावेन कामान्प्राप्स्यामि चाप्यहम्
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम्
ऋश्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा
संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम्
सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान्
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता
ततः प्रीतोऽभवद्राजा श्रुत्वा तद्द्विजभाषितम्
अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम्
गुरूणां वचनाच्छीघ्रं संभाराः संभ्रियन्तु मे
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता
नापराधो भवेत्कष्टो यद्यस्मिन्क्रतुसत्तमे
छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते
तथाविधानं क्रियतां समर्थाः करणेष्विह
तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन्
पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत
ततो द्विजास्ते धर्मज्ञमस्तुवन्पार्थिवर्षभम्
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्
गतानां तु द्विजातीनां मन्त्रिणस्तान्नराधिपः
विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः