Valmiki Ramayana

Balakanda, Sarga 10

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Balakanda, Sarga 10, Verse 1

भूय एव च राजेन्द्र शृणु मे वचनं हितम्

यथा स देवप्रवरः कथायामेवमब्रवीत्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 2

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः

राजा दशरथो नाम्ना श्रीमान्सत्यप्रतिश्रवः

Valmiki Ramayana

Balakanda, Sarga 10, Verse 3

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति

कन्या चास्य महाभागा शान्ता नाम भविष्यति

Valmiki Ramayana

Balakanda, Sarga 10, Verse 4

पुत्रस्त्वङ्गस्य राज्ञस्तु लोमपाद इति श्रुतः

तं स राजा दशरथो गमिष्यति महायशाः

Valmiki Ramayana

Balakanda, Sarga 10, Verse 5

अनपत्योऽस्मि धर्मात्मञ्शान्ताभर्ता मम क्रतुम्

आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च

Valmiki Ramayana

Balakanda, Sarga 10, Verse 6

श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च

प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 7

प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः

आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना

Valmiki Ramayana

Balakanda, Sarga 10, Verse 8

तं च राजा दशरथो यष्टुकामः कृताञ्जलिः

ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 9

यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः

लभते च स तं कामं द्विजमुख्याद्विशां पतिः

Valmiki Ramayana

Balakanda, Sarga 10, Verse 10

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः

वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः

Valmiki Ramayana

Balakanda, Sarga 10, Verse 11

एवं स देवप्रवरः पूर्वं कथितवान्कथाम्

सनत्कुमारो भगवान्पुरा देवयुगे प्रभुः

Valmiki Ramayana

Balakanda, Sarga 10, Verse 12

स त्वं पुरुषशार्दूल तमानय सुसत्कृतम्

स्वयमेव महाराज गत्वा सबलवाहनः

Valmiki Ramayana

Balakanda, Sarga 10, Verse 13

अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च

सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः

Valmiki Ramayana

Balakanda, Sarga 10, Verse 14

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः

अभिचक्राम तं देशं यत्र वै मुनिपुंगवः

Valmiki Ramayana

Balakanda, Sarga 10, Verse 15

आसाद्य तं द्विजश्रेष्ठं लोमपादसमीपगम्

ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 16

ततो राजा यथान्यायं पूजां चक्रे विशेषतः

सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना

Valmiki Ramayana

Balakanda, Sarga 10, Verse 17

लोमपादेन चाख्यातमृषिपुत्राय धीमते

सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 18

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः

सप्ताष्टदिवसान्राजा राजानमिदमब्रवीत्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 19

शान्ता तव सुता राजन्सह भर्त्रा विशाम्पते

मदीयं नगरं यातु कार्यं हि महदुद्यतम्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 20

तथेति राजा संश्रुत्य गमनं तस्य धीमतः

उवाच वचनं विप्रं गच्छ त्वं सह भार्यया

Valmiki Ramayana

Balakanda, Sarga 10, Verse 21

ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा

स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया

Valmiki Ramayana

Balakanda, Sarga 10, Verse 22

तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा

ननन्दतुर्दशरथो लोमपादश्च वीर्यवान्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 23

ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः

पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः

क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 24

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्

तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा

Valmiki Ramayana

Balakanda, Sarga 10, Verse 25

ततः स्वलंकृतं राजा नगरं प्रविवेश ह

शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 26

ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम्

प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा

Valmiki Ramayana

Balakanda, Sarga 10, Verse 27

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः

कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 28

अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम्

सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन्

Valmiki Ramayana

Balakanda, Sarga 10, Verse 29

पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः

उवास तत्र सुखिता कंचित्कालं सह द्विजा