Balakanda, Sarga 6, Verse 1
पुर्यां तस्यामयोध्यायां वेदवित्सर्वसंग्रहः
दीर्घदर्शी महातेजाः पौरजानपदप्रियः
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुर्यां तस्यामयोध्यायां वेदवित्सर्वसंग्रहः
दीर्घदर्शी महातेजाः पौरजानपदप्रियः
इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः
बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः
धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः
यथा मनुर्महातेजा लोकस्य परिरक्षिता
तथा दशरथो राजा वसञ्जगदपालयत्
तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता
पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती
तस्मिन्पुरवरे हृष्टा धर्मात्मना बहुश्रुताः
नरास्तुष्टाधनैः स्वैः स्वैरलुब्धाः सत्यवादिनः
नाल्पसंनिचयः कश्चिदासीत्तस्मिन्पुरोत्तमे
कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित्
द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः
सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः
मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान्
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक्
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्
नानाहिताग्निर्नायज्वा विप्रो नाप्यसहस्रदः
कश्चिदासीदयोध्यायां न च निर्वृत्तसंकरः
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे
न नास्तिको नानृतको न कश्चिदबहुश्रुतः
नासूयको न चाशक्तो नाविद्वान्विद्यते तदा
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन
कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान्
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः
क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः
शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता
योधानामग्निकल्पानां पेशलानाममर्षिणाम्
संपूर्णाकृतविद्यानां गुहाकेसरिणामिव
काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः
वनायुजैर्नदीजैश्च पूर्णाहरिहयोपमैः
विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः
अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी
नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः
सा योजने च द्वे भूयः सत्यनामा प्रकाशते
तां सत्यनामां दृढतोरणार्गला;म्गृहैर्विचित्रैरुपशोभितां शिवाम्
पुरीमयोध्यां नृसहस्रसंकुलां; शशास वै शक्रसमो महीपतिः