Valmiki Ramayana

Balakanda, Sarga 3

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Valmiki Ramayana

Balakanda, Sarga 3, Verse 1

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम्

व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः

Valmiki Ramayana

Balakanda, Sarga 3, Verse 2

उपस्पृश्योदकं संयन्मुनिः स्थित्वा कृताञ्जलिः

प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 3

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम्

लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 4

नानाचित्राः कथाश्चान्या विश्वामित्रसहायने

जानक्याश्च विवाहं च धनुषश्च विभेदनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 5

रामरामविवादं च गुणान्दाशरथेस्तथा

तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 6

व्याघातं चाभिषेकस्य रामस्य च विवासनम्

राज्ञः शोकविलापं च परलोकस्य चाश्रयम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 7

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्

निषादाधिपसंवादं सूतोपावर्तनं तथा

Valmiki Ramayana

Balakanda, Sarga 3, Verse 8

गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम्

भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 9

वास्तुकर्मनिवेशं च भरतागमनं तथा

प्रसादनं च रामस्य पितुश्च सलिलक्रियाम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 10

पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम्

दण्डकारण्यगमनं सुतीक्ष्णेन समागमम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 11

अनसूयासमस्यां च अङ्गरागस्य चार्पणम्

शूर्पणख्याश्च संवादं विरूपकरणं तथा

Valmiki Ramayana

Balakanda, Sarga 3, Verse 12

वधं खरत्रिशिरसोरुत्थानं रावणस्य च

मारीचस्य वधं चैव वैदेह्या हरणं तथा

Valmiki Ramayana

Balakanda, Sarga 3, Verse 13

राघवस्य विलापं च गृध्रराजनिबर्हणम्

कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 14

शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथा

विलापं चैव पम्पायां राघवस्य महात्मनः

Valmiki Ramayana

Balakanda, Sarga 3, Verse 15

ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्

प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 16

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्

ताराविलापसमयं वर्षरात्रिनिवासनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 17

कोपं राघवसिंहस्य बलानामुपसंग्रहम्

दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 18

अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्

प्रायोपवेशनं चैव संपातेश्चापि दर्शनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 19

पर्वतारोहणं चैव सागरस्य च लङ्घनम्

रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 20

आपानभूमिगमनमवरोधस्य दर्शनम्

अशोकवनिकायानं सीतायाश्चापि दर्शनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 21

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्

राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 22

मणिप्रदानं सीताया वृक्षभङ्गं तथैव च

राक्षसीविद्रवं चैव किंकराणां निबर्हणम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 23

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्

प्रतिप्लवनमेवाथ मधूनां हरणं तथा

Valmiki Ramayana

Balakanda, Sarga 3, Verse 24

राघवाश्वासनं चैव मणिनिर्यातनं तथा

संगमं च समुद्रस्य नलसेतोश्च बन्धनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 25

प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्

विभीषणेन संसर्गं वधोपायनिवेदनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 26

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्

रावणस्य विनाशं च सीतावाप्तिमरेः पुरे

Valmiki Ramayana

Balakanda, Sarga 3, Verse 27

बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम्

अयोध्यायाश्च गमनं भरतेन समागमम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 28

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्

स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्

Valmiki Ramayana

Balakanda, Sarga 3, Verse 29

अनागतं च यत्किंचिद्रामस्य वसुधातले

तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः