Balakanda, Sarga 2, Verse 1
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः
पूजयामास धर्मात्मा सहशिष्यो महामुनिः
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः
पूजयामास धर्मात्मा सहशिष्यो महामुनिः
यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा
आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम्
स मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा
जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः
स तु तीरं समासाद्य तमसाया महामुनिः
शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्
अकर्दममिदं तीर्थं भरद्वाज निशामय
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा
न्यस्यतां कलशस्तात दीयतां वल्कलं मम
इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना
प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः
विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम्
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम्
तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः
जघान वैरनिलयो निषादस्तस्य पश्यतः
तं शोणितपरीताङ्गं वेष्टमानं महीतले
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्
तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम्
ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः
निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत्
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया
चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम्
शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुंगवः
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्
प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन्यथाविधि
तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान्गुरोः
कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित्
उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम्
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः
प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम्
अथोपविश्य भगवानासने परमार्चिते
वाल्मीकये महर्षये संदिदेशासनं ततः
उपविष्टे तदा तस्मिन्साक्षाल्लोकपितामहे
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना
यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्
शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः
जगावन्तर्गतमना भूत्वा शोकपरायणः
तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुंगवम्
श्लोक एव त्वया बद्धो नात्र कार्या विचारणा
मच्छन्दादेव ते ब्रह्मन्प्रवृत्तेयं सरस्वती
रामस्य चरितं सर्वं कुरु त्वमृषिसत्तम