Turiyatita Avadhuta Upanishad

Complete Upanishad

Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 1

तुरीयातीतोपनिषत्

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 2

ॐ तुरीयातीतोपनिषद्वेद्यं यत्परमाक्षरम् ।

तत्तुर्यातीतचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् ॥

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 3

तुरीयातीतसंन्यासपरिव्राजाक्षमालिका ।

अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका ॥

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 4

हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 5

ॐ शान्तिः शान्तिः शान्तिः ॥

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 6

अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का

स्थितिरिति पितामहो भगवन्तं पितरमादिनारायणं

परिसमेत्योवाच ।

तमाह भगवन्नारायणो योऽयमवधूतमार्गस्थो लोके

दुर्लभतरो नतु बाहुल्यो यद्येको भवति स एव नित्यपूतः स एव

वैराग्यमूर्तिः स एव ज्ञानाकारः स एव वेदपुरुष इति

ज्ञानिनो मन्यन्ते ।

महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते ।

अहं च तस्मिन्नेवावस्थितः सोऽयमादौ तावत्क्रमेण

कुटीचको बहूदकत्वं प्राप्य बहूदको हंसत्वमवलम्ब्य

हंसः परमहंसो भूत्वा स्वरूपानुसन्धानेन

सर्वप्रपञ्चं विदित्वा दण्डकमण्डलुकटिसूत्र-

कौपीनाच्छादनं स्वविध्युक्तक्रियादिकं सर्वमप्सु

संन्यस्य दिगम्बरो भूत्वा विवर्णजीर्णवल्कलाजिन-

परिग्रहमपि संत्यज्य तदूर्ध्वममन्त्रवदाचरन्क्षौरा-

भ्यङ्गस्नानोर्ध्वपुण्ड्रादिकं विहाय लौकिकवैदिकम-

प्युपसंहृत्य सर्वत्र पुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि

विहाय शीतोष्णसुखदुःखमानावमानं निर्जित्य वासनात्रय-

पूर्वकं निन्दानिन्दागर्वमत्सरदम्भदर्पद्वेषकामक्रोधलोभ

मोहहर्षामर्षासूयात्मसंरक्षणादिकं दग्ध्वा स्ववपुः

कुणपाकारमिव पश्यन्नयत्नेनानियमेन लाभालाभौ समौ

कृत्वा गोवृत्त्या प्राणसन्धारणं कुर्वन्यत्प्राप्तं तेनैव

निर्लोलुपः सर्वविद्यापाण्डित्यप्रपञ्चं भस्मीकृत्य स्वरूपं

गोपयित्वा ज्येष्ठाज्येष्ठत्वानपलापकः सर्वोत्कृष्टत्व-

सर्वात्मकत्वाद्वैतं कल्पयित्वा मत्तो व्यतिरिक्तः कश्चिन्ना-

न्योऽस्तीति देवगुह्यादिधनमात्मन्युपसंहृत्य दुःखेन नोद्विग्नः

सुखेन नानुमोदको रागे निःस्पृहः सर्वत्र शुभाशुभयो-

रनभिस्नेहः सर्वेन्द्रियोपरमः स्वपूर्वापन्नाश्रमाचारविद्या-

धर्मप्राभवमननुस्मरन्त्यक्तवर्णाश्रमाचारः सर्वदा

दिवानक्तसमत्वेनास्वप्नः सर्वदासंचारशीलो

देहमात्रवशिष्टो जलस्थलकमण्डलुः सर्वदानुन्मत्तो

बालोन्मत्तपिशाचवदेकाकी संचरन्नसंभाषणपरः

स्वरूपध्यानेन निरालम्बमवलम्ब्य स्वात्मनिष्ठानुकूलेन

सर्वं विस्मृत्य तुरीयातीतावधूतवेषेणाद्वैतनिष्ठापरः

प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः स

कृतकृत्यो भवतीत्युपनिषत् ॥

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 7

ॐ तत्सत् ॥

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 8

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णामेवाशिष्यते ॥

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 9

ॐ शान्तिः शान्तिः शान्तिः ॥

Turiyatita Avadhuta Upanishad

Complete Upanishad, Verse 10

इति तुरीयातीतोपनिषत्समाप्ता ॥