Trisikhi Brahmana Upanishad

Complete Upanishad

Containing 163 sacred Sanskrit shlokas with multi-author commentaries and translations.

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 1

त्रिशिखिब्राह्मणोपनिषत्

योगज्ञानैकसंसिद्धशिवतत्त्वतयोज्ज्वलम् ।

प्रतियोगिविनिर्मुक्तं परंब्रह्म भवाम्यहम् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ त्रिशिखी ब्राह्मण आदित्यलोकं जगाम तं गत्वोवाच ।

भगवन् किं देहः किं प्राणः किं कारण किमात्मा स

होवाच सर्वमिदं शिव एव विजानीहि ।

किंतु नित्यः शुद्धो

निरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्वं

दृष्ट्वा तप्तायःपिण्डवदेकं भिन्नवदवभासते ।

तद्भासकं किमिति चेदुच्यते ।

सच्छब्दवाच्य-

मविद्याशबलं ब्रह्म ।

ब्रह्मणोऽव्यक्तम् ।

अव्यक्तान्महत् ।

महतोऽहङ्कारः ।

अहङ्कारात्पञ्चतन्मात्राणि ।

पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि ।

पञ्चमहाभूतेभ्योऽखिलं जगत् ॥

तदखिलं किमिति ।

भूतविकारविभागादिरिति ।

एकस्मिन्पिण्डे

कथं भूतविकारविभाग इति ।

तत्तत्कार्यकारणभेदरूपे-

णांशतत्त्ववाचकवाच्यस्थानभेदविषयदेवताकोश-

भेदविभागा भवन्ति ।

अथाकाशोऽन्तःकरणमनोबुद्धि-

चिताहङ्कारः ।

वायुः समानोदानव्यानापानप्राणाः ।

वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि ।

आपः शब्दस्पर्श-

रूपरसगन्धाः ।

पृथिवी वाक्पाणिपादपायूपस्थाः ।

ज्ञानसङ्कल्पनिश्चयानुसन्धानाभिमाना आकाश-

कार्यान्तःकरणविषयाः ।

समीकरणोन्ननयनग्रहण-

श्रवणोच्छ्वासा वायुकार्यप्राणादिविषयाः ।

शब्दस्पर्शरूपरसगन्धा अग्निकार्यज्ञानेन्द्रिय-

विषया अबाश्रिताः ।

वचनादानगमनविसर्गानन्दाः

पृथिवीकार्यकर्मेन्द्रियविषयाः ।

कर्मज्ञानेन्द्रिय-

विषयेषु प्राणतन्मात्रविषया अन्तर्भूताः ।

मनोबुद्ध्योश्चित्ताहङ्कारौ चान्तर्भूतौ ।

अवकाशविधूतदर्शनपिण्डीईकरणधारणाः सूक्ष्मतमा

जैवतन्मात्रविषयाः ।

एवं द्वादशाङ्गानि

आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि ।

अत्र

निशाकरचतुर्मुखदिग्वातार्कवरुणाश्व्यग्नीन्द्रोपेन्द्र-

प्रजापतियमा इत्यक्षाधिदेवतारूपैर्द्वादश-

नाड्यन्तःप्रवृत्ताः प्राणा एवाङ्गानि अङ्गज्ञानं

तदेव ज्ञातेति ।

अथ व्योमानिलानलजलान्नानां

पञ्चीकरणमिति ।

ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा

शब्दगुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति ।

मनोव्यानयोगेन त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो

वायौ तिष्ठति वायुस्तिष्ठति ।

बुद्धिरुदानयोगेन

चक्षुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ

तिष्ठत्यग्निस्तिष्ठति ।

चित्तमपानयोगेन जिह्वाद्वारा

रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति ।

अहङ्कारः प्राणयोगेन घ्राणद्वारा गन्धगुणो

गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवी तिष्ठति

य एवं वेद ।

अत्रैते श्लोका भवन्ति ।

पृथग्भूते षोडश कलाः स्वार्थभागान्परान्क्रमात् ।

अन्तःकरणव्यानाक्षिरसपायुनभःक्रमात्

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 2

मुख्यात्पूर्वोत्तरैर्भागैर्भूतेभूते चतुश्चतुः ।

पूर्वमाकाशमाश्रित्य पृथिव्यादिषु संस्थिताः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 3

मुख्यादूर्ध्वे परा ज्ञेया न परानुत्तरान्विदुः ।

एवमंशो ह्यभूत्तस्मात्तेभ्यश्चांशो ह्यभूत्तथा

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 4

तस्मादन्योन्यमाश्रित्य ह्योतं प्रोतमनुक्रमात् ।

पञ्चभूतमयी भूमिः सा चेतनसमन्विता

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 5

तत ओषधयोऽन्नं च ततः पिण्डाश्चतुर्विधाः ।

रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 6

केचित्तद्योगतः पिण्डा भूतेभ्यः संभवाः क्वचित् ।

तस्मिन्नन्नमयः पिण्डो नाभिमण्डलसंस्थिताः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 7

अस्य मध्येऽस्ति हृदयं सनालं पद्मकोशवत् ।

सत्त्वान्तर्वर्तिनो देवाः कर्त्रहङ्कारचेतनाः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 8

अस्य बीजं तमःपिण्डं मोहरूपं जडं घनम् ।

वर्तते कण्ठमाश्रित्य मिश्रीभूतमिदं जगत्

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 9

प्रत्यगानन्दरूपात्मा मूर्ध्नि स्थाने परे पदे ।

अनन्तशक्तिसंयुक्तो जगद्रूपेण भासते

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 10

सर्वत्र वर्तते जाग्रत्स्वप्नं जाग्रति वर्तते ।

सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित्

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 11

सर्वदेशेष्वनुस्यूतश्चतूरूपः शिवात्मकः ।

यथा महाफले सर्वे रसाः सर्वप्रवर्तकाः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 12

तथैवान्नमये कोशे कोशास्तिष्ठन्ति चान्तरे ।

यथा कोशस्तथा जीवो यथा जीवस्तथा शिवः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 13

सविकारस्तथा जीवो निर्विकारस्तथा शिवः ।

कोशास्तस्य विकारास्ते ह्यवस्थासु प्रवर्तकाः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 14

यथा रसाशये फेनं मथनादेव जायते ।

मनो निर्मथनादेव विकल्पा बहवस्तथा

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 15

कर्मणा वर्तते कर्मी तत्त्यागाच्छान्तिमाप्नुयात् ।

अयने दक्षिणे प्राप्ते प्रपञ्चाभिमुखं गतः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 16

अहङ्काराभिमानेन जीवः स्याद्धि सदाशिवः ।

स चाविवेकप्रकृतिसङ्गत्या तत्र मुह्यते

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 17

नानायोनिशतं गत्वा शेतेऽसौ वासनावशात् ।

विमोक्षात्संचरत्येव मत्स्यः कूलद्वयं यथा

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 18

ततः कालवशादेव ह्यात्मज्ञानविवेकतः ।

उत्तराभिमुखो भूत्वा स्थानात्स्थानान्तरं क्रमात्

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 19

मूर्ध्न्याधायात्मनः प्राणान्योगाभ्यासं स्थितश्चरन् ।

योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 20

योगज्ञानपरो नित्यं स योगी न प्रणश्यति ।

विकारस्थं शिवं पश्येद्विकारश्च शिवेन तु

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 21

योगप्रकाशकं योगैर्ध्यायेच्चानन्य भावनः ।

योगज्ञाने न विद्येते तस्य भावो न सिद्ध्यति

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 22

तस्मादभ्यासयोगेन मनःप्राणान्निरोधयेत् ।

योगी निशितधारेण क्षुरेणैव निकृन्तयेत्

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 23

शिखा ज्ञानमयी वृत्तिर्यमाद्यष्टाङ्गसाधनैः ।

ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 24

क्रियायोगमथेदानीं श्रुणु ब्राह्मणसत्तम ।

अव्याकुलस्य चित्तस्य बन्धनं विषये क्वचित्

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 25

यत्संयोगो द्विजश्रेष्ठ स च द्वैविध्यमश्नुते ।

कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 26

बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ।

यत्त चित्तस्य सततमर्थे श्रेयसि बन्धनम्

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 27

ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः शिवः ।

यस्योक्तलक्षणे योगे द्विविधेऽप्यव्ययं मनः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 28

स याति परमं श्रेयो मोक्षलक्षणमञ्जसा ।

देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 29

अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः ।

सर्ववस्तुन्युदासीनभावमासनमुत्तमम्

Trisikhi Brahmana Upanishad

Complete Upanishad, Verse 30

जगत्सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः ।

चित्तस्यान्तर्मुखीभावः प्रत्याहारस्तु सत्तम