Tripura Upanishad

Complete Upanishad

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Tripura Upanishad

Complete Upanishad, Verse 1

त्रिपुरोपनिषत्

त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् ।

अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता ।

मनो मे वाचि प्रतिष्ठितम् ।

आविरावीर्म एधि ।

वेदस्य म आणीस्थः ।

श्रुतं मे मा प्रहासीः ।

अनेनाधीतेनाहोरात्रान् संदधामि ।

ऋतं वदिष्यामि ।

सत्यं वदिष्यामि ।

तन्मामवतु ।

तद्वक्तारमवतु ।

अवतु माम् ।

अवतु वक्तारम् ।

अवतु वक्तारम् ।

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ तिस्रः पुरास्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः

सन्निविष्टाः ।

अधिष्ठायैना अजरा पुराणी महत्तरा महिमा देवतानाम्

Tripura Upanishad

Complete Upanishad, Verse 2

नवयोनिर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च ।

नवानां चक्रा अधिनाथाः स्योना नव मुद्रा नव भद्रा महीनाम्

Tripura Upanishad

Complete Upanishad, Verse 3

एका सा आसीत् प्रथमा सा नवासीदासोनविंशादासोनत्रिंशत् ।

चत्वारिंशादथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु

Tripura Upanishad

Complete Upanishad, Verse 4

ऊर्ध्वज्वलज्वलनं ज्योतिरग्रे तमो वै तिरश्श्चीनमजरं तद्रजोऽभूत् ।

आनन्दनं मोदनं ज्योतिरिन्दो रेता उ वै मण्डला मण्डयन्ति

Tripura Upanishad

Complete Upanishad, Verse 5

तिस्रश्च [ यास्तिस्रो ] रेखाः सदनानि

भूमेस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः ।

एतत्पुरं [ एतत्त्रयं ] पूरकं पूरकाणामत्र [

पूरकाणां मन्त्री ] प्रथते मदनो मदन्या

Tripura Upanishad

Complete Upanishad, Verse 6

मदन्तिका मानिनी मंगला च सुभगा च सा सुन्दरी सिद्धिमत्ता ।

लज्जा मतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती

Tripura Upanishad

Complete Upanishad, Verse 7

इमां विज्ञाय सुधया मदन्ती परिसृता तर्पयन्तः स्वपीठम् ।

नाकस्य पृष्ठे वसन्ति परं धाम त्रैपुरं चाविशन्ति

Tripura Upanishad

Complete Upanishad, Verse 8

कामो योनिः कामकला व्रजपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।

पुनर्गुहा सकला मायया च पूरूच्येषा विश्वमातादिविद्या

Tripura Upanishad

Complete Upanishad, Verse 9

षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिक्रमा देशयन्तः ।

कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं

भजन्ते

Tripura Upanishad

Complete Upanishad, Verse 10

त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाः स्वरमध्यं तदीले ।

[ पुरं हन्त्रीमुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा ।

]

बृहत्तिथिर्दशा पञ्चादि नित्या सा षोडशी पुरमध्यं बिभर्ति

Tripura Upanishad

Complete Upanishad, Verse 11

यद्वा मण्डलाद्वा स्तनबिंबमेकं मुखं चाधस्त्रीणि गुहा सदनानि ।

कामी कलां काम्यरूपां विदित्वा [ चिकित्वा ] नरो जायते

कामरूपश्च काम्यः [ कामः ]

Tripura Upanishad

Complete Upanishad, Verse 12

परिसृतम् झषमाद्यं [ झषमाजं ] फलं च

भक्तानि योनीः सुपरिष्कृताश्च ।

निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति

Tripura Upanishad

Complete Upanishad, Verse 13

सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् ।

इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या

Tripura Upanishad

Complete Upanishad, Verse 14

भगः शक्तिर्भगवान्काम ईश उभा दाताराविह सौभगानाम् ।

समप्रधानौ समसत्वौ समोजौ तयोः शक्तिरजरा विश्वयोनिः

Tripura Upanishad

Complete Upanishad, Verse 15

परिस्रुता हविषा भावितेन प्रसङ्कोचे गलिते वैमनस्कः ।

शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति

Tripura Upanishad

Complete Upanishad, Verse 16

इयं महोपनिषत्त्रैपुर्या यामक्षरं परमो गीर्भिरीट्टे ।

एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या च विद्या