Tripura Tapini Upanishad

Complete Upanishad

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Tripura Tapini Upanishad

Complete Upanishad, Verse 1

त्रिपुरातापिन्युपनिषत्

त्रिपुरातापिनीविद्यावेद्यचिच्छक्तिविग्रहम् ।

वस्तुतश्चिन्मात्ररूपं परं तत्त्वं भजाम्यहम् ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥

भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥

व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

अथैतस्मिन्नन्तरे भगवान्प्राजापत्यं वैष्णवं विलयकारणं

रूपमाश्रित्य त्रिपुराभिधा भगवतीत्येवमादिशक्त्या भूर्भुवः स्वस्त्रीणि

स्वर्गभूपातालानि त्रिपुराणि हरमायात्मकेन हीङ्कारेण हृल्लेखाख्या

भगवती त्रिकूटावसाने निलये विलये धाम्नि महसा घोरेण प्राप्नोति ।

सैवेयं

भगवती त्रिपुरेति व्यापठ्यते ।

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।

धियो यो

नः प्रचोदयात् परो रजसे सावदोम् ।

जातवेदसे सुनवाम सोममरातीयतो

निदहाति वेद ।

स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ।

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धना-

न्मृत्योर्मुक्षीय मामृतात् ।

शताक्षरी परमा विद्या त्रयीमयी साष्टार्णा

त्रिपुरा परमेश्वरी ।

आद्यानि चत्वारि पदानि परब्रह्मविकासीनि ।

द्वितीयानि

शक्त्याख्यानि ।

तृतीयानि शैवानि ।

तत्र लोका वेदाः शास्त्राणि पुराणानि

धर्माणि वै चिकित्सितानि ज्योतींषि शिवशक्तियोगादित्येवं घटना व्यापठ्यते ।

अथैतस्य परं गह्वरं व्याख्यास्यामो महामनुसमुद्भवं तदिति ।

ब्रह्म

शाश्वतम् ।

परो भगवान्निर्लक्षणो निरञ्जनो निरुपाधिराधिरहितो देवः ।

उन्मीलते पश्यति विकासते चैतन्यभावं कामयत इति ।

स एको देवः शिवरूपी

दृश्यत्वेन विकासते यतिषु यज्ञेषु योगिषु कामयते ।

कामं जायते स एष निरञ्जनोऽकामत्वेनोज्जृम्भते ।

अकचटतपयशान्सृजते ।

तस्मादीश्वरः कामोऽभिधीयते ।

तत्परिभाषया कामः ककारं व्याप्नोति ।

काम एवेदं

तत्तदिति ककारो गृह्यते ।

भस्मात्तत्पदार्थ इति य एवं वेद ।

सवितुर्वरेण्यमिति षूङ् प्राणिप्रसवे सविता प्राणिनः सूते

प्रसूते शक्तिम् ।

सूते त्रिपुरा शक्तिराद्येयं त्रिपुरा

परमेश्वरी महाकुण्डलिनी देवी ।

जातवेदसमण्डलं योऽधीते

सर्वं व्याप्यते ।

त्रिकोणशक्तिरेकारेण महाभागेन प्रसूते ।

तस्मादेकार एव गृह्यते ।

वरेण्यं श्रेष्ठं भजनीयमक्षरं

नमस्कार्यम् ।

तस्माद्वरेण्यमेकाराक्षरं गृह्यत इति

य एवं वेद ।

भर्गो देवस्य धीमहीत्येवं व्याख्यास्यामः ।

धकारो धारणा ।

धियैव धार्यते भगवान्परमेश्वरः ।

भर्गो देवो मध्यवर्ति तुरीयमक्षरं साक्षात्तुरीयं सर्वं

सर्वान्तर्भूतम् ।

तुरीयाक्षरमीकारं पदानां

मध्यवर्तीत्येवं व्याख्यातं भर्गोरूपं व्याचक्षते ।

तस्माद्भर्गो देवस्य धीमहीत्येवमीकाराक्षरं गृह्यते ।

महीत्यस्य व्याख्यानं महत्त्वं जडत्वं काठिन्यं विद्यते

यस्मिन्नक्षतेरेतन्महि लकारः परं धाम ।

काठिन्याढ्यं

ससागरं सपर्वतं स सप्तद्वीपं सकाननमुज्ज्वलद्रूपं

मण्डलमेवोक्तं लकारेण ।

पृथ्वी देवी महीत्यनेन व्याचक्षते ।

धियो यो नः प्रचोदयात् ।

परमात्मा सदाशिव आदिभूतः परः ।

स्थाणुभूतेन लकारेण

ज्योतिर्लिङ्गमात्मानं धियो बुद्धयः परे वस्तुनि ध्यानेच्छारहितं

निर्विकल्पके प्रचोदयात्प्रेरयेदित्युच्चारणरहितं चेतसैव

चिन्तयित्वा भावयेदिति ।

परो रजसे सावदोमिति तदवसाने परं

ज्योतिरमलं हृदि दैवतं चैतन्यं चिल्लिङ्गं हृदयागारवासिनी

हृल्लेखेत्यादिना स्पष्टं वाग्भवकूटं पञ्चाक्षरं

पञ्चभूतजनकं पञ्चकलामयं व्यापठ्यत इति ।

य एवं वेद ।

अथ तु परं कामकलाभूतं कामकूटमाहुः ।

तत्सवितुर्वरेण्य-

मित्यादिद्वात्रिंशदक्षरीं पठित्वा तदिति परमात्मा सदाशिवोऽकशरं

विमलं निरुपाधितादात्न्यप्रतिपादनेन हकाराक्षरं शिवरूपं

निरक्षरमक्षरं व्यालिख्यत इति ।

तत्परागव्यावृत्तिमादाय शक्तिं दर्शयति ।

तत्सवितुरिति पूर्वेणाध्वना सूर्याधश्चन्द्रिकां व्यालिख्य

मूलादिब्रह्मरन्ध्रगं साक्षरमद्वितीयमाचक्षत इत्याह भगवन्तं

देवं शिवशक्त्यात्मकमेवोदितम् ।

शिवोऽयं परमं देवं शक्तिरेषा तु जीवज्जा ।

सूर्याचन्द्रमसोर्योगाद्धंसस्ततत्पदमुच्यते

Tripura Tapini Upanishad

Complete Upanishad, Verse 2

तस्मादुज्जृम्भते कामः कामात्कामः परः शिवः ।

कार्णोऽयं कामदेवोऽयं वरेण्यं भर्ग उच्यते

Tripura Tapini Upanishad

Complete Upanishad, Verse 3

तत्सवितुर्वरेण्यं भर्गो देवः क्षीरं सेचनीयमक्षरं

समधुघ्नमक्षरं परमात्मजीवात्मनोर्योगात्तदिति

स्पष्टमक्षरं तृतीयं ह इति तदेव सदाशिव एव

निष्कल्मष आद्यो देवोऽन्त्यमक्षरं व्याक्रियते ।

परमं पदं धीति धारणं विद्यते जडत्वधारणं

महीति लकारः शिवाधस्तात्तु लकारार्थः स्पष्टमन्त्यमक्षरं

परमं चैतन्यं धियो यो नः प्रचोदयात्परो रजसे सावदोमित्येवं

कूटं कामकलालयं षडध्वपरिवर्तको वैष्णवं परमं

धामैति भगवांश्चैतस्माद्य एवं वेद ।

अथैतस्मादपरं

तृतीयं शक्तिकूटं प्रतिपद्यते ।

द्वात्रिंशदक्षर्या गायत्र्या

तत्सवितुर्वरेण्यं तस्मादात्मन आकाश आकाशाद्वायुः स्फुरति

तदधीनं वरेण्यं समुदीयमानं सवितुर्वा योग्यो जीवात्मपरमात्म-

समुद्भवस्तं प्रकाशशक्तिरूपं जीवाक्षरं स्पष्टमापद्यते ।

भर्गो देवस्य धीत्यनेनाधाररूपशिवात्माक्षरं गण्यते ।

महीत्यादिनाशेषं काम्यं रमणीयं दृश्यं शक्तिकूटं

स्पष्टीकृतमिति ।

एवं पञ्चदशाक्षरं त्रैपुरं योऽधीते स

सर्वान्कामानवाप्नोति ।

स सर्वांल्लोकाञ्जयति ।

स सर्वा वाचो विजृम्भयति ।

स रुद्रत्वं प्राप्नोति ।

स वैष्णवं धाम भित्त्वा परं ब्रह्म प्राप्नोति ।

य एवं वेद ।

इत्याद्यां विद्यामभिधायैतस्याः शक्तिकूटं

शक्तिशिवाद्यं लोपामुद्रेयम् ।

द्वितीये धामनि पूर्वेणैव मनुना बिन्दुहीना शक्तिभूतहृल्लेखा

क्रोधमुनिनाधिष्ठिता ।

तृतीये धामनि पूर्वस्या एव विद्याया

यद्वाग्भवकूटं तेनैव मानवीं चान्द्रीं कौबेरीं विद्यामाचक्षते ।

मदनाधः शिवं वाग्भवम् ।

तदूर्ध्वं कामकलामयम् ।

शक्त्यूर्ध्वं शक्तिमिति मानवी विद्या ।

चतुर्थे धामनि

शिवशक्त्याख्यमन्यत्तृतीयं चेयं चान्द्री विद्या ।

पञ्चमे धामनि

ध्येयेयं चान्द्री कामाधः शिवाद्यकामा ।

सैव कौबेरि षष्ठे

धामनि व्याचक्षत इति ।

य एवं वेद ।

हित्वेकारं तुरीयस्वरं सर्वादौ

सूर्याचन्द्रमस्केन कामेश्वर्येवागस्त्यसंज्ञा ।

सप्तमे धामनि

तृतीयमेतस्या एव पूर्वोक्तायाः कामाद्यं द्विधाधः कं मदनकलाद्यं

शक्तिबीजं वाग्भवाद्यं तयोरर्धावशिरस्कं कृत्वा नन्दिविद्येयम् ।

अष्टमे धामनि वाग्भवमागस्त्यं वागर्थकलामयं कामकलाभिधं

सकलमायाशक्तिः प्रभाकरी विद्येयम् ।

नवमे धामनि पुनरागस्त्यं

वाग्भवं शक्तिमन्मथशिवशक्तिमन्मथोर्वीमायाकामकलालयं

चन्द्रसूर्यानङ्गधूर्जटिमहिमालयं तृतीयं षण्मुखीयं विद्या ।

दशमे धामनि विद्याप्रकाशितया भूय एवागस्त्यविद्यां पठित्वा भूय

एवेमामन्त्यमायां परमशिवविद्येयमेकादशे धामनि भूय एवागस्त्यं

पठित्वा एतस्या एव वाग्भवं यद्धनजं कामकलालयं च तत्सहजं कृत्वा

लोपामुद्रायाः शक्तिकूटराजं पठित्वा वैष्णवी विद्या द्वादशे धामनि

व्याचक्षत इति ।

य एवं वेद ।

तान्होवाच ।

भगवान्सर्वे यूयं श्रुत्वा पूर्वां कामाख्यां

तुरीयरूपां तुरीयातीतां सर्वोत्कटां सर्वमन्त्रासनगतां

पीठोपपीठदेवतापरिवृतां सकलकलाव्यापिनीं देवतां सामोदां

सपरागां सहृदयां सामृतां सकलां सेन्द्रियां सदोदितां

परां विद्यां स्पष्टीकृत्वा हृदये निधाय विज्ञायानिलयं

गमयित्वा त्रिकूटां त्रिपुरां परमां मायां श्रेष्ठां परां

वैष्णवीं संनिधाय हृदयकमलकर्णिकायां परां भगवतीं

लक्ष्मीं मायां सदोदितां महावश्यकरीं मदनोन्मादनकारिणीं

धनुर्बाणधारिणीं वाग्विजृम्भिणीं चन्द्रमण्डलमध्यवर्तिनीं

चन्द्रकलां सप्तदशीं महानित्योपस्थितां पाशाङ्कुशमनोज्ञ-

पाणिपल्लवां समुद्यदर्कनिभां त्रिनेत्रां विचिन्त्य देवीं महालक्ष्मीं

सर्वलक्ष्मीमयीं सर्वलक्षणसम्पन्नां हृदये चैतन्यरूपिणीं

निरञ्जनां त्रिकूटाख्यां स्मितमुखीं सुन्दरीं महामायां

सर्वसुभगां महाकुण्डलिनीं त्रिपीठमध्यवर्तिनीमकथादिश्रीपीठे

परां भैरवीं चित्कलां महात्रिपुरां देवीं ध्यायेन्महाध्यान-

Tripura Tapini Upanishad

Complete Upanishad, Verse 4

अथातो जातवेदसे सुनवाम सोममित्यादि पठित्वा त्रैपुरी व्यक्तिर्लक्ष्यते ।

जातवेदस इत्येकर्चसूक्तस्याद्यमध्यमावसानेषु तत्र स्थानेषु

विलीनं बीजसागररूपं व्याचक्ष्वेत्यृषय ऊचुः ।

तान्होवाच

भगवाञ्जातवेदसे सुनवाम सोमं तदत्यम्रवाणीं विलोमेन पठित्वा

प्रथमस्याद्यं तदेवं दीर्घं द्वितीयस्याद्यं सुनवाम सोममित्यनेन

कौलं वामं श्रेष्ठं सोमं महासौभाग्यमाचक्षते ।

स

सर्वसम्पत्तिभूतं प्रथमं निवृत्तिकारणं द्वितीयं स्थितिकारणं

तृतीयं सर्गकारणमित्यनेन करशुद्धिं कृत्वा त्रिपुराविद्यां

स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा महाविद्येश्वरी-

विद्यामाचक्षते त्रिपुरेश्वरीं जातवेदस इति ।

जाते आद्यक्षरे मातृकायाः

शिरसि बैन्दवममृतरूपिणीं कुण्डलिनीं त्रिकोणरूपिणीं चेति वाक्यार्थः ।

एवं प्रथमस्याद्यं वाग्भवम् ।

द्वितीयं कामकलालयम् ।

जात

इत्यनेन परमात्मनो जृम्भणम् ।

जात इत्यादिना परमात्मा शिव उच्यते ।

जातमात्रेण कामी कामयते काममित्यादिना पूर्णं व्याचक्षते ।

तदेव सुनवाम गोत्रारूढं मध्यवर्तिनामृतमध्येनार्णेन

मन्त्रार्णान्स्पष्टीकृत्वा ।

गोत्रेति नामगोत्रायामित्यादिना स्पष्टं

कामकलालयं शेषं वाममित्यादिना ।

पूर्वेणाध्वना विद्येयं

सर्वरक्षाकरी व्याचक्षते ।

एवमेतेन विद्यां त्रिपुरेशीं स्पष्टीकृत्वा

जातवेदस इत्यादिना जातो देव एक ईश्वरः परमो ज्योतिर्मन्त्रतो वेति तुरीयं

वरं दत्त्वा बिन्दुपूर्णज्योतिःस्थानं कृत्वा प्रथमस्याद्यं द्वितीयं च

तृतीयं च सर्वरक्षाकरीसंबन्धं कृत्वा विद्यामात्मासनरूपिणीं

स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि पठित्वा रक्षाकरीं

विद्यां स्मृत्वाद्यन्तयोर्धाम्नोः शक्तिशिवरूपिणीं विनियोज्य स इति

शक्त्यात्मकं वर्णं सोममिति शैवात्मकं धाम जानीयात् ।

यो जानीते

स सुभगो भवति ।

एवमेतां चक्रासनगतां त्रिपुरवासिनीं सदोदितां

शिवशक्त्यात्मिकमवेदितां जातवेदाः शिव इति सेति

शक्त्यात्माक्षरमिति शिवादिशक्त्यन्तरालभूतां त्रिकूटादिचारिणीं

सूर्याचन्द्रनमस्कां मन्त्रासनगतां त्रिपुरं महालक्ष्मीं

सदोदितां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि

पठित्वा पूर्वं सदात्मासनरूपां विद्यां स्मृत्वा वेद इत्यादिना

विश्वाहसंततोदयबैन्दवमुपरि विन्यस्य सिद्धासनस्थां त्रिपुरां

मालिनीं विद्यां स्पष्टीकृत्वा जातवेदसे सुनवाम सोममित्यादि

पठित्वा त्रिपुरां सुन्दरीं श्रित्वा कले अक्षरे विचिन्त्य मूर्तिभूतां

मूर्तिरूपिणीं सर्वविद्येश्वरीं त्रिपुरां विद्यां स्पष्टीकृत्वा

जातवेदस इत्यादि पठित्वा त्रिपुरां लक्ष्मीं श्रित्वाग्निं निदहाति

सैवेयमग्न्यानने ज्वलतीति विचिन्त्य त्रिज्योतिषमीश्वरीं त्रिपुरामम्बां

विद्यां स्पष्टीकुर्यात् ।

एवमेतेन स नः पर्षदति दुर्गाणि

विश्वेत्यादिपरप्रकाशिनी प्रत्यग्भूता कार्या ।

विद्येयमाह्वानकर्माणि

सर्वतो धीरेति व्याचक्षते ।

एवमेतद्विद्याष्टकं महामाया-

देव्यङ्गभूतं व्याचक्षते ।

देवा ह वै भगवन्तमब्रुवन्महाचक्रनायकं

नो ब्रूहीति सार्वकामिकं सर्वाराध्यं सर्वरूपं विश्वतोमुखं

मोक्षद्वारं यद्योगिन उपविश्य परं ब्रह्म भित्त्वा निर्वाणमुपविशन्ति ।

तान्होवाच भगवाञ्श्रीचक्रं व्याख्यास्याम इति ।

त्रिकोणं त्र्यस्रं कृत्वा

तदन्तर्मध्यवृत्तमानयष्टिरेखामाकृष्य विशालं नीत्वाग्रतो

योनिं कृत्वा पूर्वयोन्यग्ररूपिणीं मानयष्टिं कृत्वा तां सर्वोर्ध्वां

नीत्वा योनिं कृत्वाद्यं त्रिकोणं चक्रं भवति ।

द्वितीयमन्तरालं भवति ।

तृतीयमष्टयोन्यङ्कितं भवति ।

अथाष्टारचक्राद्यन्तविदिक्कोणाग्रतो

रेखां नीत्वा साध्याद्याकर्षणबद्धरेखां नीत्वेत्येवमथोर्ध्व-

सम्पुटयोन्यङ्कितं कृत्वा कक्षाभ्य ऊर्ध्वगरेखाचतुष्टयं

कृत्वा यथाक्रमेण मानयष्टिद्वयेन दशयोन्यङ्कितं चक्रं भवति ।

अनेनैव प्रकारेण पुनर्दशारचक्रं भवति ।

मध्यत्रिकोणाग्रचतुष्टया-

द्रेखाचराग्रकोणेषु संयोज्य तद्दशारांशतोनीतां मानयष्टिरेखां

योजयित्वा चतुर्दशारं चक्रं भवति ।

ततोऽष्टपत्रसंवृतं चक्रं भवति ।

षोडशपत्रसंवृतं चक्रं चतुर्द्वारं भवति ।

ततः पार्थिवं चक्रं

चतुर्द्वारं भवति ।

एवं सृष्टियोगेन चक्रं व्याख्यातम् ।

नवात्मकं

चक्रं प्रातिलोम्येन वा वच्मि ।

प्रथमं चक्रं त्रैलोक्यमोहनं भवति ।

साणिमाद्यष्टकं भवति ।

समात्रष्टकं भवति ।

ससर्वसंक्षोभिण्यादिदशकं

भवति ।

सप्रकटं भवति ।

त्रिपुरयाधिष्ठितं भवति ।

ससर्वसंक्षोभिणीमुद्रया

जुष्टं भवति ।

द्वितीयं सर्वाशापरिपूरकं चक्रं भवति ।

सकामाद्याकर्षिणीषोडशकं भवति ।

सगुप्तं भवति ।

त्रिपुरेश्वर्याधिष्ठितं

भवति ।

सर्वविद्राविणीमुद्रया जुष्टं भवति ।

तृतीयं सर्वसंक्षोभणं चक्रं भवति ।

सानङ्गकुसुमाद्यष्टकं भवति ।

सगुप्ततरं भवति ।

त्रिपुरसुन्दर्याधिष्ठितं भवति ।

सर्वाकर्षिणीमुद्रया जुष्टं भवति ।

तुरीयं सर्वसौभाग्यदायकं चक्रं भवति ।

ससर्वसंक्षोभिण्यादिद्विसप्तकं भवति ।

ससम्प्रदायं भवति ।

त्रिपुरवासिन्याधिष्ठितं भवति ।

ससर्ववशंकरिणीमुद्रया

जुष्टं भवति ।

तुरीयान्तं सर्वार्थसाधकं चक्रं भवति ।

ससर्वसिद्धिप्रदादिदशकं भवति ।

सकलकौलं भवति ।

त्रिपुरामहालक्ष्म्याधिष्ठितं भवति ।

महोन्मादिनीमुद्रया

जुष्टं भवति ।

षष्ठं सर्वरक्षाकरं चक्रं भवति ।

ससर्वज्ञत्वादिदशकं भवति ।

सनिगर्भं भवति ।

त्रिपुरमालिन्याधिष्ठितं भवति ।

महाङ्कुशमुद्रया जुष्टं

भवति ।

सप्तमं सर्वरोगहरं चक्रं भवति ।

सर्ववशिन्याद्यष्टकं

भवति ।

सरहस्यं भवति ।

त्रिपुरसिद्ध्याधिष्ठितं भवति ।

सखेचरीमुद्रया जुष्टं भवति ।

अष्टमं सर्वसिद्धिप्रदं

चक्रं भवति ।

सायुधचतुष्टयं भवति ।

सपरापररहस्यं

भवति ।

त्रिपुराम्बयाधिष्ठितं भवति ।

बीजमुद्रयाधिष्ठितं

भवति ।

नवमं चक्रनायकं सर्वानन्दमयं चक्रं भवति ।

सकामेश्वर्यादित्रिकं भवति ।

सातिरहस्यं भवति ।

महात्रिपुर-

सुन्दर्याधिष्ठितं भवति ।

योनिमुद्रया जुष्टं भवति ।

संक्रामन्ति वै सर्वाणि च्छन्दांसि चकाराणि ।

तदेव चक्रं

श्रीचक्रम् ।

तस्य नाभ्यामग्निमण्डले सूर्याचन्द्रमसौ ॥

तत्रोंकारपीठं पूजयित्वा तत्राक्षरं बिन्दुरूपं तदन्तर्गत-

व्योमरूपिणीं विद्यां परमां स्मृत्वा महात्रिपुरसुन्दरीमावाह्य ।

क्षीरेण स्नापिते देवि चन्दनेन विलेपिते ।

बिल्वपत्रार्चिते देवि दुर्गेऽहं

शरणं गतः ।

इत्येकयर्चा प्रार्थ्य मायालक्ष्मी तन्त्रेण

पूजयेदिति भगवानब्रवीत् ।

एतैर्मन्त्रैर्भगवतीं यजेत् ।

ततो देवी

प्रीता भवति ।

स्वात्मानं दर्शयति ।

तस्माद्य एतैर्मन्त्रैर्यजति स

ब्रह्म पश्यति ।

स सर्वं पश्यति ।

सोऽमृतत्वं च गच्छति ।

य एवं वेदेति महोपनिषत् ॥

इति द्वितीयोपनिषत्

Tripura Tapini Upanishad

Complete Upanishad, Verse 5

देवा ह वै मुद्राः सृजेमेति भगवन्तमब्रुवन् ।

तान्होवाच भगवानवनिकृतजानुमण्डलं विस्तीर्य

पद्मासनं कृत्वा मुद्राः सृजतेति ।

स सर्वानाकर्षयति

यो योनिमुद्रामधीते ।

स सर्वं वेत्ति ।

स सर्वफलमश्नुते ।

स सर्वान्भञ्जयति ।

स विद्वेषिणं स्तम्भयति ।

मध्यमे

अनामिकोपरि विन्यस्य कनिष्ठिकाङ्गुष्ठतोऽधीते

मुक्तयोस्तर्जन्योर्दण्डवदधस्तादेवंविधा प्रथमा सम्पद्यते ।

सैव मिलितमध्यमा द्वितीया ।

तृतीयाङ्कुशाकृतिरिति ।

प्रातिलोम्येन पाणी सङ्घर्षयित्वाङ्गुष्ठौ साग्रिमौ

समाधाय तुरीया ।

परस्परं कनीयसेदं मध्यमाबद्धे

अनामिके दण्डिन्यौ तर्जन्यावालिङ्ग्यावष्टभ्य मध्यमानख-

मिलिताङ्गुष्ठौ पञ्चमी ।

सैवाग्रेऽङ्कुशाकृतिः षष्ठी ।

दक्षिणशये वामबाहुं कृत्वान्योन्यानामिके कनीयसीमध्यगते

मध्यमे तर्जन्याक्रान्ते सरलास्वङ्गुष्ठौ खेचरी सप्तमी ।

सर्वोर्ध्वे सर्वसंहृति स्वमध्यमानामिकान्तरे कनीयसि

पार्श्वयोस्तर्जन्यावङ्कुशाढ्ये युक्ता साङ्गुष्ठयोगतोऽन्योन्यं

सममञ्जलिं कृत्वाष्टमी ।

परस्परमध्यमापृष्ठवर्तिन्यावनामिके

तर्जन्याक्रान्ते समे मध्यमे आदायाङ्गुष्ठौ मध्यवर्तिनौ

नवमी प्रतिपद्यत इति ।

सैवेयं कनीयसे समे अन्तरितेऽङ्गुष्ठौ समावन्तरितौ

कृत्वा त्रिखण्डापद्यत इति ।

पञ्च बाणाः पञ्चाद्या

मुद्राः स्पष्टाः ।

क्रोमङ्कुशा ।

हसख्फ्रें खेचरी ।

हंस्रौ बीजाष्टमी वाग्भवाद्या नवमी दशमी च

सम्पद्यत इति ।

य एवं वेद ।

अथातः कामकलाभूतं चक्रं

व्याख्यास्यामो ह्रीं क्लीमैं ब्लूॅं स्रौमेते पञ्च कामाः

सर्वचक्रं व्यावर्तन्ते ।

मध्यमं कामं सर्वावसाने

सम्पुटीकृत्य ब्लूङ्कारेण सम्पुटं व्याप्तं कृत्वा द्विरैन्दवेन

मध्यवर्तिना साध्यं बद्ध्वा भूर्जपत्रे यजति ।

तच्चक्रं

यो वेत्ति स सर्वं वेत्ति ।

स सकलाॅंल्लोकानाकर्षयति ।

स सर्वं

स्तम्भयति ।

नीलीयुक्तं चक्रं शत्रून्मारयति ।

गतिं

स्तम्भयति ।

लाक्षायुक्तं कृत्वा सकललोकं वशीकरोति ।

नवलक्षजपं कृत्वा रुद्रत्वं प्राप्नोति ।

मातृकया वेष्टितं

कृत्वा विजयी भवति ।

भगाङ्ककुण्डं कृत्वाग्निमाधाय पुरुषो

हविषा हुत्वा योषितो वशीकरोति ।

वर्तुले हुत्वा श्रियमतुलं

प्राप्नोति ।

चतुरस्रे हुत्वा वृष्टिर्भवति ।

त्रिकोणे हुत्वा

शत्रून्मारयति ।

गतिं स्तम्भयति ।

पुष्पाणि हुत्वा विजयी भवति ।

महारसैर्हुत्वा परमानन्दनिर्भरो भवति ।

गणानां त्वा गणपतिं

हवामहे कविं कवीनामुपमश्रवस्तमम् ।

ज्येष्ठराजं

ब्रह्मणां ब्रह्मणस्पत आ नः श्रुण्वन्नूतिभिः सीद सादनम् ।

इत्येवमाद्यमक्षरं तदन्त्यबिन्दुपूर्णमित्यनेनाङ्गं स्पृशति ।

गं गणेशाय नम इति गणेशं नमस्कुर्वीत ।

ॐ नमो भगवते

भस्माङ्गरागायोग्रतेजसे हनहन दहदह पचपच मथमथ

विध्वंसयविध्वंसय हलभञ्जन शूलमूले व्यञ्जनसिद्धिं कुरुकुरु

समुद्रं पूर्वप्रतिष्ठिअतं शोषयशोषय स्तम्भयस्तम्भय

परमन्त्रपरयन्त्रपरतन्त्रपरदूतपरकटकपरच्छेदनकर

विदारयविदारय च्छिन्धिच्छिन्धि ह्रीं फट् स्वाहा ।

अनेन क्षेत्राध्यक्षं

पूजयेदिति ।

कुलकुमारि विद्महे मन्त्रकोटिसुधीमहि ।

तन्नः कौलिः प्रचोदयात् ।

इति कुमार्यर्चनं कृत्वा यो वै साधकोऽभिलिखति सोऽमृतत्वं गच्छति ।

स यश आप्नोति ।

स परमायुष्यमथ वा परं ब्रह्म भित्त्वा तिष्ठति ।

य एवं वेदेति महोपनिषत् ।

इति तृतीयोपनिषत्

Tripura Tapini Upanishad

Complete Upanishad, Verse 6

देवा ह वै भगवन्तमब्रुवन्देव गायत्रं हृदयं नो

व्याख्यातं त्रैपुरं सर्वोत्तमम् ।

जातवेदससूक्तेनाख्यातं

नस्त्रैपुराष्टकम् ।

यदिष्ट्वा मुच्यते योगी जन्मसंसारबन्धनात् ।

अथ मृत्युंजयं नो ब्रूहीत्येवं ब्रुवतां सर्वेषां देवानां

श्रुत्वेदं वाक्यमथातस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयं दर्शयति ।

कस्मात्त्र्यम्बकमिति ।

त्रयाणां पुराणामम्बकं स्वामिनं तस्मादुच्यते

त्र्यम्बकमिति ।

अथ कस्मादुच्यते यजामह इति ।

यजामहे सेवामहे वस्तु

महेत्यक्षरद्वयेन कूटत्वेनाक्षरैकेण मृत्युंजयमित्युच्यते ।

तस्मादुच्यते यजामह इति ।

अथ कस्मादुच्यते सुगन्धिमिति ।

सर्वतो यश

आप्नोति ।

तस्मादुच्यते सुगन्धिमिति ।

अथ कस्मादुच्यते पुष्टिवर्धनमिति ।

यत्सर्वांल्लोकान्सृजति यत्सर्वांल्लोकांस्तारयति यत्सर्वांल्लोकान्व्याप्नोति

तस्मादुच्यते पुष्टिवर्धनमिति ।

अथ कस्मादुच्यते उर्वारुकमिव

बन्धनान्मृत्योर्मुक्षीयेति ।

संलग्नत्वादुर्वारुकमिव मृत्योः संसारबन्धनात्संलग्नत्वाद्बद्धत्वान्मोक्षीभवति मुक्तो भवति ।

अथ कस्मादुच्यते मामृतादिति अमृतत्वं प्राप्नोत्यक्षरं

प्राप्नोति स्वयं रुद्रो भवति ।

देवा ह वै भगवन्तमूचुः सर्वं नो व्याख्यातम् ।

अथ कैर्मन्त्रैः स्तुता भगवती स्वात्मानं दर्शयति

तान्सर्वाञ्छैवान्वैष्णवान्सौरान्गाणेशान्नो

ब्रूहीति ।

स होवाच भगवांस्त्र्यम्बकेनानुष्टुभेन

मृत्युंजयमुपासयेत् ।

पूर्वेणाध्वना व्याप्तमेकाक्षरमिति

स्मृतम् ।

ॐ नमः शिवायेति याजुषमन्त्रोपासको

रुद्रत्वं प्राप्नोति ।

कल्याणं प्राप्नोति ।

य एवं वेद ।

तद्विष्णोः

परमं पदं सदा पश्यन्ति सूरयः ।

दिवीव चक्षुराततम् ।

विष्णोः सर्वतोमुखस्य स्नेहो यथा पललपिण्डमोतप्रोतमनुव्याप्तं

व्यतिरिक्तं व्याप्नुत इति व्याप्नुवतो विष्णोस्तत्परमं पदं परं व्योमेति

परमं पदं पश्यन्ति वीक्षन्ते ।

सूरयो ब्रह्मादयो देवास इति

सदा हृदय अदधते ।

तस्माद्विष्णोः स्वरूपं वसति तिष्ठति

भूतेश्विति वासुदेव इति ।

ॐ नम इति त्रीण्यक्षराणि ।

भगवत इति

चत्वारि ।

वासुदेवायेति पञ्चाक्षराणि ।

एतद्वै वासुदेवस्य

द्वादशार्णमभ्येति ।

सोपप्लवं तरति ।

स सर्वमायुरेति ।

विन्दते

प्राजापत्यं रायस्पोषं गौपत्यं च तमश्नुते प्रत्यगानन्दं

ब्रह्मपुरुषं प्रणवस्वरूपमकार उकारो मकार इति ।

तानेकधा

संभवति तदोमिति ।

हंसः शुचिषद्वसुरन्तरिक्षसद्धोता

वेदिषदतिथिर्दुरोणसत् ।

नृषद्वरसदृतसद्व्योमसदब्जा गोजा

ऋतजा अद्रिजा ऋतं बृहत् ।

हंस इत्येतन्मनोरक्षरद्वितीयेन

प्रभापुञ्जेन सौरेण धृतमब्जा गोजा ऋतजा अद्रिजा ऋतं

सत्या-प्रभा-पुञ्जि-न्युषा-सन्ध्या-प्रज्ञाभिः

शक्तिभिः पूर्वं सौरमधीयानः सर्वं फलमश्नुते ।

स व्योम्नि परमे धामनि सौरे निवसते ।

गणानां त्वति त्रैष्टुभेन पूर्वेणाध्वना मनुनैकार्णेन

गणाधिपमभ्यर्च्य गणेशत्वं प्राप्नोति ।

अथ गायत्री

सावित्री सरस्वत्यजपा मातृका प्रोक्ता तया सर्वमिदं व्याप्तम् ।

ऐं वागीश्वरि विद्महे क्लीं कामेश्वरी धीमहि ।

सौस्तन्नः शक्तिः

प्रचोदयादिति ।

गायत्री प्रातः सावित्री मध्यन्दिने सरस्वती सायमिति

निरन्तरमजपा ।

हंस इत्येव मातृका ।

पञ्चाशद्वर्णविग्रहेणा-

कारादिक्षकारान्तेन व्याप्तानि भुवनानि शास्त्राणि

च्छन्दांसीत्येवं भगवतीं सर्वं व्याप्नोतीत्येव तस्यै वै नमोनम इति ।

तान्भगवानब्रवीदेतैर्मन्त्रैर्नित्यं देवीं यः स्तौति स सर्वं पश्यति ।

सोऽमृतत्वं च गच्छति ।

य एवं वेदेत्युपनिषत् ॥

इति तुरीयोपनिषत्

Tripura Tapini Upanishad

Complete Upanishad, Verse 7

देवा ह वै भगवन्तमब्रुवन्स्वामिन्नः कथितं स्फुटं

क्रियाकाण्डं सविषयं त्रैपुरमिति ।

अथ परमनिर्विशेषं

कथयस्वेति ।

तान्होवाच भगवांस्तुरीयया माययान्त्यया

निर्दिष्टं परमं ब्रह्मेति ।

परमपुरुषं चिद्रूपं

परमात्मेति ।

श्रोता मन्ता द्रष्टादेष्टा स्प्रष्टाघोष्टा

विज्ञाता प्रज्ञाता सर्वेषां पुरुषाणामन्तःपुरुषः

स आत्मा स विज्ञेय इति ।

न तत्र लोका अलोका न तत्र देवा अदेवाः

पशवोऽपशवस्तापसो न तापसः पौल्कसो न पौल्कसो

विप्रा न विप्राः ।

स इत्येकमेव परं ब्रह्म विभ्राजते निर्वाणम् ।

न तत्र देवा ऋषयः पितर ईशते प्रतिबुद्धः सर्वविद्येति ।

तत्रैते श्लोका भवन्ति ।

अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ।

यतो निर्विषयो नाम मनसो मुक्तिरिष्यते

Tripura Tapini Upanishad

Complete Upanishad, Verse 8

मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।

अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम्

Tripura Tapini Upanishad

Complete Upanishad, Verse 9

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।

बन्धनं विषयासक्तं मुक्त्यै निर्विषयं मनः

Tripura Tapini Upanishad

Complete Upanishad, Verse 10

निरस्तविषयासङ्गं संनिरुध्य मनो हृदि ।

यदा यात्यमनीभावस्तदा तत्परमं पदम्

Tripura Tapini Upanishad

Complete Upanishad, Verse 11

तावदेव निरोद्धव्यं यावधृदिगतं क्षयम् ।

एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः

Tripura Tapini Upanishad

Complete Upanishad, Verse 12

नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च ।

पक्षपातविनिर्मुक्तं ब्रह्म सम्पद्यते ध्रुवम्

Tripura Tapini Upanishad

Complete Upanishad, Verse 13

स्वरेण सल्लयेद्योगी स्वरं संभावयेत्परम् ।

अस्वरेण तु भावेन न भावो भाव इष्यते

Tripura Tapini Upanishad

Complete Upanishad, Verse 14

तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।

तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म सम्पद्यते क्रमात्

Tripura Tapini Upanishad

Complete Upanishad, Verse 15

निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।

अप्रमेयमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः

Tripura Tapini Upanishad

Complete Upanishad, Verse 16

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।

न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता

Tripura Tapini Upanishad

Complete Upanishad, Verse 17

एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।

स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते

Tripura Tapini Upanishad

Complete Upanishad, Verse 18

एक एव हि भूतात्मा भूतेभूते व्यवस्थितः ।

एकधा बहुधा चैव दृश्यते जलचन्द्रवत्

Tripura Tapini Upanishad

Complete Upanishad, Verse 19

घटसंवृतमाकाशं नीयमाने घटे यथा ।

घटो नीयेत नाकाशं तथा जीवो नभोपमः

Tripura Tapini Upanishad

Complete Upanishad, Verse 20

घटवद्विविधाकारं भिद्यमां पुनः पुनः ।

तद्भेदे च न जानाति स जानाति च नित्यशः

Tripura Tapini Upanishad

Complete Upanishad, Verse 21

शब्दमायावृतो यावत्तावत्तिष्ठति पुष्कले ।

भिन्ने तमसि चैकत्वमेक एवानुपश्यति

Tripura Tapini Upanishad

Complete Upanishad, Verse 22

शब्दार्णमपरं ब्रह्म तस्मिन्क्षीणे यदक्षरम् ।

तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः

Tripura Tapini Upanishad

Complete Upanishad, Verse 23

द्वे ब्रह्मणी हि मन्तव्ये शब्दब्रह्म परं च यत् ।

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

Tripura Tapini Upanishad

Complete Upanishad, Verse 24

ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।

पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः

Tripura Tapini Upanishad

Complete Upanishad, Verse 25

गवामनेकवर्णानां क्षीरस्याप्येकवर्णता ।

क्षीरवत्पश्यति ज्ञानी लिङ्गिनस्तु गवां यथा

Tripura Tapini Upanishad

Complete Upanishad, Verse 26

ज्ञाननेत्रं समाधाय स महत्परमं पदम् ।

निष्कलं निश्चलं शान्तं ब्रह्माहमिति संस्मरेत्

Tripura Tapini Upanishad

Complete Upanishad, Verse 27

इत्येकं परब्रह्मरूपं सर्वभूताधिवासं तुरीयं

जानीते सोऽक्षरे परमे व्योमन्यधिवसति ।

य एतां विद्यां

तुरीयां ब्रह्मयोनिस्वरूपां तामिहायुषे शरणमहं

प्रपद्ये ।

आकाशाद्यनुक्रमेण सर्वेषां वा एतद्भूतानामाकाशः

परायणम् ।

सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते ।

आकाश एव लीयन्ते ।

तस्मादेव जातानि जीवन्ति ।

तस्मादाकाशजं

बीजं विन्द्यात् ।

तदेवाकाशपीठं स्पार्शनं पीठं

तेजःपीठममृतपीठं रत्नपीठं जानीयात् ।

यो जानीते

सोऽमृतत्वं च गच्छति ।

तस्मादेतां तुरीयां श्रीकामराजीयामेकादशधा

भिन्नमेकाक्षरं ब्रह्मेति यो जानीते स तुरीयं पदं प्राप्नोति ।

य एवं वेदेति महोपनिषत् ॥

इति पञ्चमोपनिषत्