अथोपासकस्तदाज्ञया नित्यं गरुडमारुह्य
वैकुण्ठवासिभिः सर्वैः परिवेष्टितो महासुदर्शनं
पुरस्कृत्य विश्वक्सेनपरिपालितश्चोपर्युपरि गत्वा
ब्रह्मानन्दविभूतिं प्राप्य सर्वत्रावस्थिताब्रह्मानन्द-
मयाननन्तवैकुण्ठानवलोक्य निरतिशयानन्दसागरो
भूत्वात्मारामानन्दविभूतिपुरुषाननन्तानवलोक्य
तान्सर्वानुपचारैः समभ्यर्च्य तैः सर्वैरभिपूजित-
श्चोपासकस्तत उपर्युपरि गत्वा ब्रह्मानन्दविभूतिं
प्राप्यानन्तदिव्यतेजःपर्वतैरलङ्कृतान्परमानन्द-
लहरीवनशोभितानसंख्याकानानन्दसमुद्रानतिक्रम्य
विविधविचित्रानन्तपरमतत्त्वविभूतिसमष्टिविशेषा-
न्परमकौतुकान्ब्रह्मानन्दविभूतिविशेषनतिक्रम्योपासकः
परमकौतुकं प्राप ।
ततः सुदर्शनवैकुण्ठपुरमाभाति नित्यमङ्गलमनन्तविभवं
सहस्रानन्दप्रकारपरिवेष्टितमयुतकुक्ष्युपलक्षित-
मनन्तोत्कटज्वलदरमण्डलं निरतिशयदिव्यतेजोमण्डलं
वृन्दारकपरमानन्दं शुद्धबुद्धस्वरूपमनन्तानन्द-
सौदामिनीपरमविलासं निरतिशयपरमानन्दपारावार-
मनन्तैरानन्दपुरुषैश्चिद्रूपैरधिष्ठितम् ।
तन्मध्ये च
सुदर्शनं महाचक्रम् ।
चरणं पवित्रं विततं पुराणं
येन पूतस्तरति दुष्कृतानि ।
तेन पवित्रेण शुद्धेन पूता
अतिपाप्मानमरातिं तरेम ।
लोकस्य द्वारमर्चिमत्पवित्रम् ।
ज्योतिष्मद्भ्राजमानं महस्वत् ।
अमृतस्य धारा बहुधा
दोहमानम् ।
चरणं नो लोके सुधितां दधातु ।
अयुतारं
ज्वलन्तमयुतारसमष्ट्याकरं निरतिशयविक्रमविलासमनन्त-
दिव्यायुधदिव्यशक्तिसमष्टिरूपं महाविष्णोरनर्गलप्रताप-
विग्रहमयुतायुतकोटियोजनविशालमनन्तज्वालजालैरलङ्कृतं
समस्तदिव्यमङ्गलनिदानमनन्तदिव्यतीर्थानां निजमन्दिरमेवं
सुदर्शनं महाचक्रं प्रज्वलति ।
तस्य नाभिमण्डलसंस्थाने उपलक्ष्यते निरतिशयानन्द-
दिव्यतेजोराशिः ।
तन्मध्ये च सहस्रारचक्रं प्रज्वलति ।
तदखण्डदिव्यतेजोमण्डलाकारं परमानन्दसौदामिनी-
निचयोज्ज्वलम् ।
तदभ्यन्तरसंस्थाने षट्शतारचक्रं
प्रज्वलति ।
तस्यामितपरमतेजः परमविहारसंस्थानविशेषं
विज्ञानघनस्वरूपम् ।
तदन्तराले त्रिशतारचक्रं विभाति ।
तच्च परमकल्याणविलासविशेषमनन्तचिदादित्यसमष्ट्याकरम् ।
तदभ्यन्तरे शतारचक्रमाभाति ।
तच्च परमतेजोमण्डल-
विशेषम् ।
तन्मध्ये षष्ट्यरचक्रमाभाति ।
तच्च
ब्रह्मतेजःपरमविलासविशेषम् ।
तदभ्यन्तरसंस्थाने
षट्कोणचक्रं प्रज्वलति ।
तच्चापरिच्छिन्नानन्तदिव्यतेजोराश्याकरम् ।
तदभ्यन्तरे महानन्दपदं विभाति ।
तत्कर्णिकायां
सूर्येन्दुवह्निमण्डलानि चिन्मयानि ज्वलन्ति ।
तत्रोपलक्ष्यते
निरतिशयदिव्यतेजोराशिः ।
तदभ्यन्तरसंस्थाने युअगपदुदिता-
नन्तकोटिरविप्रकाशः सुदर्शनपुरुषो विराजते ।
सुदर्शनपुरुषो
महाविष्णुरेव ।
महविष्णोः समस्तासाधारणचिह्नचिह्नितः ।
एवमुपासकः सुदर्शनपुरुष ध्यात्वा विविधोपचारैराराध्य
प्रदक्षिणनमस्कारान्विधायोपासकस्तेनाभिपूजितस्तदनुज्ञात-
श्चोपर्युपरि गत्वा परमानन्दमयानन्तवैकुण्ठानवलोक्योपासकः
परमानन्दं प्राप ।
तत उपरि विविधविचित्रानन्तचिद्विलासविभूति-
विशेषानतिक्रम्यानन्तपरमानन्दविभूतिसमष्टिविशेषानन्त-
निरतिशयानन्तसमुद्रानतीत्योपासकः क्रमेणाद्वैतसंस्थानं प्राप ॥
कथमद्वैतसंस्थानम् ।
अखण्डानन्दस्वरूप-
मनिर्वाच्यमतिबोधसागरममितानन्दसमुद्रं
विजातीयविशेषविवर्जितं सजातीयविशेषविशेषितं
निरवयवं निराधारं निर्विकारं निरञ्जनमनन्त-
ब्रह्मानन्दसमष्टिकन्दं परमचिद्विलास-
समष्ट्याकारं निर्मलं निरवद्यं निराश्रय-
मतिनिर्मलानन्तकोटिरविप्रकाशैकस्फुलिङ्गमन-
न्तोपनिषदर्थस्वरूपमखिलप्रमाणातीतं
मनोवाचामगोचरं नित्यमुक्तस्वरूपमनाधार-
मादिमध्यान्तशून्यं कैवल्यं परमं शान्तं
सूक्ष्मतरं महतो महत्तरमपरिमितानन्दविशेषं
शुद्धबोधानन्दविभूतिविशेषमनन्तानन्दविभूति-
विशेषसमष्टिरूपमक्षरमनिर्देश्यं कूटस्थ-
मचलं ध्रुवमदिग्देशकालमन्तर्बहिश्च तत्सर्वं
व्याप्य परिपूर्णं परमयोगिभिर्विमृग्यं देशतः
कालतो वस्तुतः परिच्छेदरहितं निरन्तराभिनवं
नित्यपरिपूर्णमखण्डानन्दामृतविशेषं शाश्वतं
परमं पदं निरतिशयानन्दानन्ततटित्पर्वताकार-
मद्वितीयं स्वयम्प्रकाशमनिशं ज्वलति ।
परमानन्द-
लक्षणापरिच्छिन्नानन्तपरंज्योतिः शाश्वतं शश्वद्विभाति ।
तदभ्यन्तरसंस्थानेऽमितानन्दचिद्रूपाचल-
मखण्डपरमानन्दविशेषं बोधानन्दमहोज्ज्वलं
नित्यमङ्गलमन्दिरं चिन्मथनाविर्भूतं
चित्सारमनन्ताश्चर्यसागरममिततेजोराश्यन्तर्गत-
तेजोविशेषमनन्तानन्दप्रवाहैरलङ्कृतं
निरतिशयानन्दपारावाराकारं निरुपमनित्यनिरवद्य-
निरतिशयनिरवधिकतेजोराशिविशेषं निरतिशयानन्द-
सहस्रप्राकारैरलङ्कृतं शुद्धबोधसौधावलि-
विशेषैरलङ्कृतं चिदानन्दमयानन्तदिव्यारामैः
सुशोभितं शश्वदमितपुष्पवृष्टिभिः समन्ततः
सन्ततम् ।
तदेव त्रिपाद्विभूति वैकुण्ठस्थानं तदेव
परमकैवल्यम् ।
तदेवाबाधितपरमतत्त्वम् ।
तदेवानन्तो-
पनिषद्विमृग्यम् ।
तदेव परमयोगिभिर्मुमुक्षिभिः
सर्वैराशास्यमानम् ।
तदेव सद्घनम् ।
तदेव चिद्घनम् ।
तदेवानन्दघनम् ।
तदेव शुद्धबोधघनविशेष-
मखण्डानन्दब्रह्मचैतन्याधिदेवतास्वरूपम् ।
सर्वाधिष्ठानमद्वयपरब्रह्मविहारमण्डलं
निरतिशयानन्दतेजोमण्डलमद्वैतपरमानन्दलक्षण-
परब्रह्मणः परमाधिष्ठानमण्डलं निरतिशय-
परमानन्दपरममूर्तिविशेषमण्डलमनन्तपरम-
मूर्तिसमष्टिमण्डलं निरतिशयपरमानन्दलक्षण-
परब्रह्मणः परममूर्तिपरमतत्त्वविलासविशेषमण्डलं
बोधानन्दमयानन्तपरमविलासविभूतिविशेषसमष्टि-
मण्डलमनन्तचिद्विलासविभूतिविशेषसमष्टिमण्डल-
मखण्डशुद्धचैतन्यनिजमूर्तिविशेषविग्रहं
वाचामगोचरानन्तशुद्धबोधविशेषविग्रहमनन्तानन्द-
समुद्रसमष्ट्याकारमनन्तबोधाचलैरधिष्ठितं
निरतिशयानन्दपरममङ्गलविशेषसमष्ट्याकार-
मखण्डाद्वैतपरमानन्दलक्षणपरब्रह्मणः परममूर्ति-
परमतेजःपुञ्जपिण्डविशेषं चिद्रूपादित्यमण्डलं
द्वात्रिंशद्व्यूहभेदैरधिष्ठितम् ।
व्यूहभेदाश्च केशवादिचतुर्विंशतिः ।
सुदर्शनादिन्यासमन्त्राः ।
सुदर्शनादि यन्त्रोद्धारः ।
अनन्तगरुडविश्वक्सेनाश्च निरतिशयानन्दाश्च ।
आनन्दव्यूहमध्ये सहस्रकोटियोजनायतोन्नत-
चिन्मयप्रासादं ब्रह्मानन्दमयविमानकोटिभि-
रतिमङ्गलमनन्तोपनिषदर्थारामजालसंकुलं
सामहंसकूजितैरतिशोभितमानन्दमयानन्तशिखरै-
रलङ्कृतं चिदानन्दरसनिर्झरैरभिव्याप्तमखण्डा-
नन्दतेजोराश्यन्तरस्थितमनन्तानन्दाश्चर्यसागरं
तदभ्यन्तरसंस्थानेऽनन्तकोटिरविप्रकाशातिशय-
प्राकारं निरतिशयानन्दलक्षणं प्रणवाख्यं
विमानं विराजते ।
शतकोटिशिखरैरानन्दमयैः
समुज्ज्वलति ।
तदन्तराले बोधानन्दाचलोपर्यष्टाक्षरी-
मण्टपो विभाति ।
तन्मध्ये च चिदानन्दमयवेदिकानन्द-
वनविभूषिता ।
तदुपरि ज्वलति निरतिशयानन्दतेजोराशिः ।
तदभ्यन्तरसंस्थानेऽष्टाक्षरीपद्मविभूषितं
चिन्मयासनं विराजते ।
प्रणवकर्णिकायां सूर्येन्दु-
वह्निमण्डलानि चिन्मयानि ज्वलन्ति ।
तत्राखण्डानन्द-
तेजोराश्यन्तर्गतं परममङ्गलाकारमनन्तासनं
विराजते ।
तस्योपरि च महायन्त्रं प्रज्वलति ।
निरतिशय-
ब्रह्मानन्दपरममूर्तिमहायन्त्रं समस्तब्रह्म-
तेजोराशिसमष्टिरूपं चित्स्वरूपं निरञ्जनं परब्रह्म-
स्वरूपं परब्रह्मणः परमरहस्यकैवल्यं महायन्त्रमय-
परमवैकुण्ठनारायणयन्त्रं विजयते ।
तत्स्वरूपं कथमिति ।
देशिकस्तथेति होवाच ।
आदौ षट्कोणचक्रम् ।
तन्मध्ये
षट्दलपद्मम् ।
तत्कर्णिकायां प्रणव ॐइति ।
प्रणवमध्ये
नारायणबीजमिति ।
तत्साध्यगर्भितं मम सर्वाभीष्टसिद्धिं
कुरुकुरु स्वाहेति ।
तत्पद्मदलेषु विष्णुनृसिंहषडक्षर-
मन्त्रौ ॐ नमो विष्णवे ऐं क्लीं श्रीं ह्रीं क्ष्मौं फट् ।
तद्दलकपोलेषु रामकृष्णषडक्षरमन्त्रौ ।
रां
रामाय नमः ।
क्लीं कृष्णाय नमः ।
षट्कोणेषु
सुदर्शनषडक्षरमन्त्रः ।
सहस्रार हुं फडिति ।
षट्कोण-
कपोलेषु प्रणवयुक्तशिवपञ्चाक्षरमन्त्रः ।
ॐ नमः
शिवायेति ।
तद्बहिः प्रणवमालायुक्तं वृत्तम् ।
वृत्ताद्बहि-
रष्टदलपद्मम् ।
तेषु दलेषु नारायणनृसिंह-
अष्टाक्षरमन्त्रौ ।
ॐ नमो नारायणाय ।
जयजय नरसिंह ।
तद्दलसन्धिषु रामकृष्णश्रीकराष्टाक्षरमन्त्राः ।
ॐ रामाय हुं फट् स्वाहा ।
क्लीं दामोदराय नमः ।
उत्तिष्ठ श्रीकरस्वाहा ।
तद्बहिः प्रणवमालायुक्तं वृत्तम् ।
वृत्तद्बहिर्नवदलपद्मम् ।
तेषु दलेषु रामकृष्ण-
हयग्रीवनवाक्षरमन्त्राः ।
ॐ रामचन्द्राय नमॐ ।
क्लीं कृष्णाय गोविन्दाय क्लीम् ।
ह्लौं हयग्रीवाय नमो
ह्लौं ।
तद्दलकपोलेषु दक्षिणामूर्तिरीश्वरम् ।
तद्बहि-
र्नारायणबीजयुक्तं वृत्तम् ।
वृत्तद्बहिर्दशदलपद्मम् ।
तेषु दलेषु रामकृष्णदशाक्षरमन्त्रौ ।
हुं जानकी-
वल्लभाय स्वाहा ।
गोपीजनवल्लभाय स्वाहा ।
तद्दलसन्धिषु
नृसिंहमालामन्त्रः ।
ॐ नमो भगवते श्रीमहानृसिंहाय
करालदंष्ट्रवदनाय मम विघ्नात्पचपच स्वाहा ।
तद्बहिर्नृसिंहैकाक्षरयुक्तं वृत्तम् ।
क्ष्मौं इत्येकाक्षरम् ।
वृत्ताद्बहिर्द्वादशदलपद्मम् ।
तेषु दलेषु नारायण-
वासुदेवद्वादशाक्षरमन्त्रौ ।
ॐ नमो भगवते नारायणाय ।
ॐ नमो भगवते वासुदेवाय ।
तद्दलकपोलेषु महाविष्णु-
रामकृष्णद्वादशाक्षरमन्त्राश्च ।
ॐ नमो भगवते
महाविष्णवे ।
ॐ ह्रीं भरताग्रज राम क्लीं स्वाहा ।
श्रीं ह्रीं क्लीं कृष्णाय गोविन्दाय नमः ।
तद्बहिर्जगन्मोहन-
बीजयुक्तं वृत्तं क्लीं इति ।
वृत्तद्बहिश्चतुर्दशदलपद्मम् ।
तेषु दलेषु लक्ष्मीनारायणहयग्रीवगोपालदधिवामन-
मन्त्राश्च ।
ॐ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मीवासुदेवाय नमः ।
ॐ नमः सर्वकोटिसर्वविद्याराजाय क्लीं कृष्णाय
गोपालचूडामणये स्वाहा ।
ॐ नमो भगवते दधिवामनाय ॐ ।
तद्दलसन्धिष्वन्नपूर्णेश्वरीमन्त्रः ।
ह्रीं पद्मावत्यन्नपूर्णे
माहेश्वरी स्वाहा ।
तद्बहिः प्रणवमालायुक्तं वृत्तम् ।
वृत्ताद्बहिः षोडशदलपद्मम् ।
तेषु दलेषु श्रीकृष्ण-
सुदर्शनषोडशाक्षरमन्त्रौ च ।
ॐ नमो भगवते
रुक्मिणीवल्लभाय स्वाहा ।
ॐ नमो भगवते महासुदर्शनाय
हुं फट् ।
तद्दलसन्धिषु स्वराः सुदर्शनमालामन्त्राश्च ।
अ आ इ ई उ ऊ ऋ ॠ लृ लॄ ए ऐ ओ औ अं अः ।
सुदर्शनमहाचक्राय दीप्तरूपाय सर्वतो
मां रक्षरक्ष सहस्रार हुं फट् स्वाहा ।
तद्बहिर्वराहबीजयुक्तं वृत्तम् ।
तद्धुमिति ।
वृत्तद्बहिरष्टादशदलपद्मम् ।
तेषु दलेषु श्रीकृष्णवामनाष्टादशाक्षरमन्त्रौ ।
क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ।
ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा ।
तद्दलकपोलेषु गरुडपञ्चाक्षरीमन्त्रो गरुडमालामन्त्रश्च ।
क्षिप ॐ स्वाहा ।
ॐ नमः पक्षिराजाय सर्वविषभूतरक्षः-
कृत्यादिभेदनाय सर्वेष्टसाधकाय स्वाहा ।
तद्बहिर्मायाबीजयुक्तं वृत्तम् ।
वृत्तद्बहिः पुनरष्टदलपद्मम् ।
तेषु दलेषु श्रीकृष्णवामनाष्टाक्षरमन्त्रौ ।
ॐ नमो दामोदराय ।
ॐ वामनाय नमः ॐ ।
तद्दलकपोलेषु नीलकण्ठत्र्यक्षरीगरुडपञ्चाक्षरीमन्त्रौ च ।
प्रें रीं ठः ।
नमोऽण्डजाय ।
तद्बहिर्मन्मथबीजयुक्तं वृत्तम् ।
वृत्तद्बहिश्चतुर्विंशतिदलपद्मम् ।
तेषु दलेषु शरणागत-
नारायणमन्त्रौ नारायणहयग्रीवगायत्री मन्त्रौ च ।
श्रीमन्नारायणचरणौ शरणं प्रपद्ये श्रीमते नारायणाय नमः ।
नारायाणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ।
वागीश्वराय विद्महे हयग्रीवाय धीमहि ।
तन्नो हंसः प्रचोदयात् ।
तद्दलकपोलेषु नृसिंहसुदर्शनगायत्रीमन्त्राश्च ।
वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि ।
तन्नो नृसिंहः प्रचोदयात् ।
सुदर्शनाय विद्महे हेतिराजाय धीमहि ।
तन्नश्चक्रः प्रचोदयात् ।
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ।
तद्बहिर्हयग्रीवैकाक्षरयुक्तं वृत्तं ह्लोह्सौमिति ।
वृत्ताद्बहिर्द्वात्रिंशद्दलपद्मम् ।
तेषु दलेषु नृसिंहहयग्रीवानुष्टुभमन्त्रौ उग्रं
वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।
ऋग्यजुःसामरूपाय वेदाहरणकर्मणे ।
प्रणवोद्गीथवपुषे महाश्वशिरसे नमः ।
तद्दलकपोलेषु रामकृष्णानुष्टुभमन्त्रौ ।
रामभद्र महेश्वास रघुवीर नृपोत्तम ।
भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च मे ।
देवकीसुत गोविन्द वासुदेव जगत्पते ।
देहि मे तनयं कृष्ण त्वामहं शरणं गतः ।
तद्बहिः प्रणवसम्पुटिताग्निबीजयुक्तं वृत्तम् ।
ॐ रमोमिति ।
वृत्तद्बहिः षट्त्रिंशद्दलपद्मम् ।
तेषु दलेषु हयग्रीवषट्त्रिंशदक्षरमन्त्रः
पुनरष्टत्रिंशदक्षर मन्त्रश्च ।
हंसः ।
विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे ।
तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे ।
सोऽहम् ।
ह्लौं ॐ नमो भगवते हयग्रीवाय सर्ववागीश्वरेश्वराय
सर्ववेदमयाय सर्वविद्यां मे देहि स्वाहा ।
तद्दलकपोलेषु प्रणवादिनमोन्ताश्च तुर्थ्यन्ताः
केशवादिचतुर्विंशतिमन्त्राश्च ।
अवशिष्टद्वादशस्थानेषु रामकृष्णगायत्रीद्वयवर्णचतुष्टयमेकैकस्थले ।
ॐ केशवाय नमः ।
ॐ नारायणाय नमः ।
ॐ माधवाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ सङ्कर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।
दाशरथाय विद्महे सीतावल्लभाय धीमहि ।
तन्नो रामः प्रचोदयात् ।
दामोदराय विद्महे वासुदेवाय धीमहि ।
तन्नः कृष्णः प्रचोदयात् ।
तद्बहिः प्रणवसम्पुटिताङ्कुशबीजयुक्तं वृत्तम् ।
ॐ क्रोमिति ।
तद्बहिः पुनर्वृत्तं तन्मध्ये द्वादशकुक्षिस्थानानि सान्तरालानि ।
तेषु कौस्तुभवनमालाश्रीवत्ससुदर्शनगरुडपद्म-
ध्वजानन्तशार्ङ्गगदाशङ्खनन्दकमन्त्राः प्रणवादि-
नमओन्ताश्चतुर्थ्यन्ताः क्रमेण ।
ॐ कौस्तुभाय नमः ।
ॐ वनमालाय नमः ।
ॐ श्रीवत्साय नमः ।
ॐ सुदर्शनाय नमः ।
ॐ गरुडाय नमः ।
ॐ पद्माय नमः ।
ॐ ध्वजाय नमः ।
ॐ अनन्ताय नमः ।
ॐ शार्ङ्गाय नमः ।
ॐ गदायै नमः ।
ॐ शङ्खाय नमः ।
ॐ नन्दकाय नमः ।
तदन्तरालेषु----ॐ विश्वक्सेनाय नमः ।
ॐआचक्राय स्वाहा ।
ॐ विचक्राय स्वाहा ।
ॐ सुचक्राय स्वाहा ।
ॐ धीचक्राय स्वाहा ।
ॐ संचक्राय स्वाहा ।
ॐ ज्वालचक्राय स्वाहा ।
ॐ क्रुद्धोल्काय स्वाहा ।
ॐ महोत्काय स्वाहा ।
ॐ वीर्योल्काय स्वाहा ।
ॐ द्युल्काय स्वाहा ।
ॐ सहस्रोल्काय स्वाहा ।
इति प्रणवादि मन्त्राः ।
तद्बहिः प्रणवसम्पुटितगरुडपञ्चाक्षरयुक्तं वृत्तम् ।
ॐ क्षिप ॐ स्वाहाम् ।
ॐ तच्च द्वादशवज्रैः
सान्तरालैरलङ्कृतम् ।
तेषु वज्रेषु
ॐ पद्मनिधये नमः ।
ॐ महापद्मनिधये नमः ।
ॐ गरुडनिधये नमः ।
शङ्खनिधये नमः ।
ॐ मकरनिधये नमः ।
ॐ कच्छपनिधये नमः ।
ॐ विद्यानिधये नमः ।
ॐ परमानन्दनिधये नमः ।
ॐ मोक्षनिधये नमः ।
ॐ लक्ष्मीनिधये नमः ।
ॐ ब्रह्मनिधये नमः ।
ॐ श्रीमुकुन्दनिधये नमः ।
ॐ वैकुण्ठनिधये नमः ।
तत्सन्धिस्थानेषु----
ॐ विद्याकल्पकतरवे नमः ।
ॐ मुक्तिकल्पकतरवे नमः ।
ॐ आनन्दकल्पकतरवे नमः ।
ॐ ब्रह्मकल्पकतरवे नमः ।
ॐ मुक्तिकल्पकतरवे नमः ।
ॐ अमृतकल्पकतरवे नमः ।
ॐ बोधकल्पकतरवे नमः ।
ॐ विभूतिकल्पकतरवे नमः ।
ॐ वैकुण्ठकल्पकतरवे नमः ।
ॐ वेदकल्पकतरवे नमः ।
ॐ योगकल्पकतरवे नमः ।
ॐ यज्ञकल्पकतरवे नमः ।
ॐ पद्मकल्पकतरवे नमः ।
तच्च शिवगायत्रीपरब्रह्ममन्त्राणां
वर्णैर्वृत्ताकारेण संवेष्ट्य ।
तत्पुरुषाय विद्महे महादेवाय धीमहि ।
तन्नो रुद्रः प्रचोदयात् ।
श्रिअमन्नारायणो ज्योतिरात्मा नारायणः परः ।
नारायणपरं ब्रह्म नारायण नमोस्तु ते ।
तद्बहिः प्रणवसम्पुटितश्रीबीजयुक्तं वृत्तम् ।
ॐ श्रीमोमिति ।
वृत्ताद्बहिश्चत्वारिंशद्दलपद्मम् ।
तेषु दलेषु व्याहृतिशिरःसम्पुटितवेदगायत्री-
पादचतुष्टयसूर्याष्टाक्षरमन्त्रौ ।
ॐ भूः ।
ॐ भुवः ।
ॐ सुवः ।
ॐ महः ।
ॐ जनः ।
ॐ तपः ।
ॐ सत्यम् ।
ॐ तत्सवितुर्वरेण्यम् ।
ॐ भर्गो देवस्य धीमहि ।
ॐ धियो यो नः प्रचोदयात् ।
ॐ परोरजसे सावदोम् ।
ॐ आपोज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् ।
ॐ घृणिः सूर्य आदित्यः ।
तद्दलसन्धिषु
प्रणवश्रीबीजसम्पुटितनारायणबीजं सर्वत्र ।
ॐ श्रीमं श्रीमोम् ।
तद्बहिरष्टशूलाङ्कितभूचक्रम् ।
चक्रान्तश्चक्षुर्दिक्षु हंसःसोहम्मन्त्रौ प्रणवसम्पुटिता
नारायणास्त्रमन्त्राश्च ।
ॐ हंसः सोहम् ।
ॐ नमो नारायणाय हुं फट् ।
तद्बहिः प्रणवमालासंयुक्तं
वृत्तम् ।
वृत्ताद्बहिः पञ्चाशद्दलपद्मम् ।
तेषु दलेषु मातृका पञ्चाशदक्षरमाला लकारवर्ज्या ।
तद्दलसन्धिषु प्रणवश्रीबीजसम्पुटितरामकृष्णमालामन्त्रौ ।
ॐ श्रीमों नमो भगवते रघुनन्दनाय रक्षोघ्नविशदाय
मधुरप्रसन्नवदनायामिततेजसे बलाय रामाय विष्णवे नमः ।
श्रीमों नमः कृष्णाय देवकीपुत्राय वासुदेवाय
निर्गलच्छेदनाय सर्वलोकाधिपतये सर्वजगन्मोहनाय विष्णवे
कामितार्थदाय स्वाहा श्रीमोम् ।
तद्बहिरष्टशूलाङ्कितभूचक्रम् ।
तेषु प्रणवसम्पुटितमहानीलकण्ठमन्त्रवर्णानि ।
आऊम्मों नमो नीलकण्ठाय ।
ॐ शूलाग्रेषु लोकपालमन्त्राः
प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण ।
ॐ इन्द्राय नमः ।
ॐ अग्नये नमः ।
ॐ यमाय नमः ।
ॐ निरृतये नमः ।
ॐ वरुणाय नमः ।
ॐ वायवे नमः ।
ॐ सोमाय नमः ।
ॐ ईशानाय नमः ।
तद्बहिः प्रणवमालायुक्तं वृत्तत्रयम् ।
तद्बहिर्भूपुरचतुष्टयं चतुर्द्वारयुतं
चक्रकोणचतुष्टयमहावज्रविभूषितं
तेषु वज्रेषु प्रणवश्रीबीजसम्पुटितामृतबीजद्वयम् ।
ॐ श्रीं ठं वं श्रीमोमिति ।
बहिर्भूपुरवीथ्याम् ----
ॐ आधारशक्त्यै नमः ।
ॐ मूलप्रकृत्यै नमः ।
ॐ आदिकूर्माय नमः ।
ॐ अनन्ताय नमः ।
ॐ पृथिव्यै नमः ।
मध्यभूपुरवीथ्याम् ----
ॐ क्षीरसमुद्राय नमः ।
ॐ रत्नद्वीपाय नमः ।
ॐ मणिमण्डपाय नमः ।
ॐ श्वेतच्छत्राय नमः ।
ॐ कल्पकवृक्षाय नमः ।
ॐ रत्नसिंहासनाय नमः ।
प्रथमभूपुरवीथ्यामों धर्मज्ञानवैराग्यैश्व-
र्याधर्माज्ञानावैराग्यानैश्वर्यसत्वरजस्तमोमाया-
विद्यानन्तपद्माः प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण ।
अन्तवृत्तवीथ्यामोमनुग्रहायै नमः ।
ॐ नमो भगवते
विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोग-
योगपीठात्मने नमः ।
वृत्तवकाशेषु----बीजं प्राणं
च शक्तिं च दृष्टिं वश्यादिकं तथा ।
मन्त्रयन्त्राख्यगायत्रीप्राणस्थापनमेव च ।
भूतदिक्पालबीजानि यन्त्रस्याङ्गानि वै दश ।
मूलमन्त्रमालामन्त्रकवचदिग्बन्धनमन्त्राश्च ।
एवंविधमेतद्यन्त्रं महामन्त्रमयं योगधीरान्तैः
परमन्त्रैरलङ्कृतं षोडशोपचारैरभ्यर्चितं
जपहोमादिना साधितमेतद्यन्त्रं शुद्धब्रह्मतेजोमयं
सर्वाभयङ्करं समस्तदुरितक्षयकरं सर्वाभीष्ट-
सम्पादकं सायुज्यमुक्तिप्रदमेतत्परमवैकुण्ठ-
महानारायणयन्त्रं प्रज्वलति ।
तस्योपरि च निरतिशयानन्द-
तेजोराश्यभ्यन्तरसमासीनं वाचामगोचरानन्द-
तेजोराश्याकारं चित्साराविर्भूतानन्दविग्रहं बोधानन्द-
स्वरूपं निरतिशयसौन्दर्यपारावारं तुरीयस्वरूपं
तुरीयातीतं चाद्वैतपरमानन्दनिरन्तरातितुरीयनिरतिशय-
सौन्दर्यानन्दपारावारं लावण्यवाहिनीकल्लोलतटिद्भासुरं
दिव्यमङ्गलविग्रहं मूर्तिमद्भिः परममङ्गलैरुपसेव्यमानं
चिदानन्दमयैरनन्तकोटिरविप्रकाशैरनन्तभूषणैरलङ्कृतं
सुदर्शनपाञ्चजन्यपद्मगदासिशार्ङ्गमुसलपरिघाद्यै-
श्चिन्मयैरनेकायुधगणैर्मूर्तिमद्भिः सुसेवितम् ।
बाह्यवृत्तवीथ्यां विमलोत्कर्षिणी ज्ञान क्रिया योग प्रह्वी
सत्येशाना प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण ।
श्रीवत्सकौस्तुभवनमालाङ्कितवक्षसं ब्रह्मकल्पवनामृत-
पुष्पवृष्टिभिः सन्ततमानन्दं ब्रह्मानन्दरसनिर्भरै-
रसंख्यैरतिमङ्गलं शेषायुतफणाजालविपुलच्छत्रशोभितं
तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहं तदङ्गकान्तिनिर्झरैस्ततं
निरतिशयब्रह्मगन्धस्वरूपं निरतिशयानन्दब्रह्मगन्ध-
विशेषकारमनन्तब्रह्मगन्धाकारसमष्टिविशेषमन्तानन्द-
तुलसीमाल्यैरभिनवं चिदानन्दमयानन्तपुष्पमाल्यैर्विराजमानं
तेजःप्रवाहतरङ्गतत्परम्पराभिर्ज्वलन्तं निरतिशयानन्दं
कान्तिविशेषावर्तैरभितोऽनिशं प्रज्वलन्तं बोधानन्दमयानन्त-
धूपदीपावलिनिरतिशोभितं निरतिशयानन्दचामरविशेषैः
परिसेवितं निरन्तरनिरुपमनिरतिशयोत्कटज्ञानानन्दानन्तगुच्छ-
फलैरलङ्कृतं चिन्मयानन्ददिव्यविमानच्छत्रध्वजराजिभि-
र्विराजमानं परममङ्गलानन्तदिव्यतेजोभिर्ज्वलन्तमनिशं
वाचामगोचरमनन्ततेजोराश्यन्तर्गतमर्धमात्रात्मकं
तुर्यं ध्वन्यात्मकं तुरीयातीतमवाच्यं नादबिन्दुकलाध्यात्म-
स्वरूपं चेत्याद्यनन्ताकारेणावस्थितं निर्गुणं निष्क्रियं
निर्मलं निरवद्यं निरञ्जनं निराकारं निराश्रयं निरतिशयाद्वैत-
परमानन्दलक्षणमादिनारायणं ध्यायेदित्युपनिषत् ॥
इत्याथर्वणमहानारायणोपनिषदि परममोक्षस्वरूप-
निरूपणद्वारा त्रिपाद्विभूतिपरमवैकुण्ठमहानारायण-
यन्त्रस्वरूपनिरूपणं नाम सप्तमोऽध्यायः