Tejobindu Upanishad

Tejobindu Upanishad

Containing 467 sacred Sanskrit shlokas with multi-author commentaries and translations.

Tejobindu Upanishad

Tejobindu Upanishad, Verse 1

तेजोबिन्दूपनिषत्

यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।

तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥

ॐ सह नाववतु ॥

सह नौ भुनक्तु ॥

सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् ।

आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 1

विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया ॥

इति प्रथमोऽध्यायः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 1

अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरस-

चिन्मात्रस्वरूपमनुब्रूहीति ।

स होवाच परमः शिवः ।

अखण्डैकरसं दृश्यमखण्डैकरसं जगत् ।

अखण्डैकरसं भावमखण्डैकरसं स्वयम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 1

कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ ।

स होवाच परः शिवः ।

परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् ।

केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 1

नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः ।

नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 1

कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः

स्थितिमनुब्रूहीति ।

स होवाच परः शिवः ।

चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।

आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते

Tejobindu Upanishad

Tejobindu Upanishad, Verse 1

निदाघो नाम वै मुनिः पप्रच्छ ऋभुं

भगवन्तमात्मानात्मविवेकमनुब्रूहीति ।

स होवाच ऋभुः ।

सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः ।

सर्वकारणकार्यात्मा कार्यकारणवर्जितः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 1

ऋभुः ॥

सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् ।

सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 2

दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् ।

दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 2

अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया ।

अखण्डैकरसं ज्ञानमखण्डैकरसं जलम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 2

इति द्वितीयोऽध्यायः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 2

केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् ।

केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 2

देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् ।

ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते

Tejobindu Upanishad

Tejobindu Upanishad, Verse 2

सर्वसङ्कल्परहितः सर्वनादमयः शिवः ।

सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 2

सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।

सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 3

यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः ।

निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 3

अखण्डैकरसा भूमिरखण्डैकरसं वियत् ।

अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी

Tejobindu Upanishad

Tejobindu Upanishad, Verse 3

केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् ।

सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 3

इति तृतीयोध्यायः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 3

आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् ।

यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।

परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते

Tejobindu Upanishad

Tejobindu Upanishad, Verse 3

सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः ।

सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 3

सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् ।

मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी

Tejobindu Upanishad

Tejobindu Upanishad, Verse 4

अगम्यागमकर्ता यो गम्याऽगमयमानसः ।

मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते

Tejobindu Upanishad

Tejobindu Upanishad, Verse 4

अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् ।

अखण्डैकरसो जीव अखण्डैकरसो ह्यजः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 4

केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः ।

सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 4

यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।

चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 4

स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर ।

आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् ॥

इति चतुर्थोऽध्यायः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 4

सर्वनादकलातीत एष आत्माहमव्ययः ।

आत्मानात्मविवेकादिभेदाभेदविवर्जितः

Tejobindu Upanishad

Tejobindu Upanishad, Verse 4

न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् ।

न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित्

Tejobindu Upanishad

Tejobindu Upanishad, Verse 5

परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः ।

सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम्