Complete Upanishad, Verse 1
तेजोबिन्दूपनिषत्
यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा ।
तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् ॥
ॐ सह नाववतु ॥
सह नौ भुनक्तु ॥
सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् ।
आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत्