Tara Sara Upanishad

Complete Upanishad

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Tara Sara Upanishad

Complete Upanishad, Verse 1

तारसारोपनिषत्

(शुक्लयजुर्वेदीया)

यन्नारायणतारार्थसत्यज्ञानसुखाकृति ।

त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

(अविमुक्तोपासनोपदेशः)

बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां

देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र

क्वचन गच्घ्छेत्तदेव मन्येतेति ।

इदं वै कुरुक्षेत्रं देवानां

देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।

अत्र हि जन्तोः

प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे

येनासावमृतीभूत्वा मोक्षी भवति ।

तस्मादविमुक्तमेव निषेवेत ।

अविमुक्तं न विमुञ्चेत् ।

एवमेवैष भगवन्निति वै याज्ञवल्क्यः

Tara Sara Upanishad

Complete Upanishad, Verse 2

(नारायणस्थूलाष्टाक्षरतारकम्)

अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् ।

किं तारयतीति ।

स होवाच याज्ञवल्क्यः ।

ॐ नमो नारायणायेति

तारकं चिदात्मकमित्युपासितव्यम् ।

ओमित्येकाक्षरमात्मस्वरूपम् ।

नम इति द्व्यक्षरं प्रकृतिस्वरूपम् ।

नारायणायेति पञ्चाक्षरं

परंब्रह्मस्वरूपम् ।

इति य एवं वेद ।

सोऽमृतो भवति ।

ओमिति ब्रह्मा

भवति ।

नकारो विष्णुर्भवति ।

मकारो रुद्रो भवति ।

नकार ईश्वरो भवति ।

रकारोऽण्डं विराड् भवति ।

यकारः पुरुषो भवति ।

णकारो भगवान्भवति ।

यकारः परमात्मा भवति ।

एतद्वै नारायणस्याष्टाक्षरं वेद

परमपुरुषो भवति ।

अयमृग्वेदः प्रथमः पादः

Tara Sara Upanishad

Complete Upanishad, Verse 3

(नारायणसूक्ष्माष्टाक्षरतारकम्)

ॐइत्येतदक्षरं परं ब्रह्म ।

तदेवोपासितव्यम् ।

एतदेव

सूक्ष्माष्टाक्षरं भवति ।

तदेतदष्टात्मकोऽष्टधा

भवति ।

अकारः प्रथमाक्षरो भवति ।

उकारो द्वितीयाक्षरो भवति ।

मकारस्तृतीयाक्षरो भवति ।

बिन्दुस्तुरीयाक्षरो भवति ।

नादः

पञ्चमाक्षरो भवति ।

कला षष्ठाक्षरो भवति ।

कलातीता

सप्तमाक्षरो भवति ।

तत्परश्चाष्टमाक्षरो भवति ।

तारकत्त्वात्तारको भवति ।

तदेव तारकं ब्रह्म त्वं विद्धि ।

तदेवोपासितव्यम्

Tara Sara Upanishad

Complete Upanishad, Verse 4

(प्रणवावयवदेवताः)

अत्रैते श्लोका भवन्ति ॥

अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः ।

उकाराक्षरसंभूत उपेन्द्रो हरिनायकः

Tara Sara Upanishad

Complete Upanishad, Verse 5

मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः ।

बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम्

Tara Sara Upanishad

Complete Upanishad, Verse 6

नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः ।

कलायाः पुरुषः साक्षाल्लक्ष्मणो धरणीधरः

Tara Sara Upanishad

Complete Upanishad, Verse 7

कलातीता भगवती स्वयं सीतेति संज्ञिता ।

तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः

Tara Sara Upanishad

Complete Upanishad, Verse 8

(श्रीरामस्य सर्वात्मकत्वम्)

ओमित्येतदक्षरमिदं सर्वम् ।

तस्योपव्याख्यानं भूतं

भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताछन्दो

ऋक्कलाशक्तिसृष्ट्यात्मकमिति ।

य एवं वेद ।

यजुर्वेदो द्वितीयः पादः

Tara Sara Upanishad

Complete Upanishad, Verse 9

(जाम्बवदाद्यष्टतनुमन्त्राः)

अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः

परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि

भगव इति ।

स होवाच याज्ञवल्क्यः ।

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो

जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः

Tara Sara Upanishad

Complete Upanishad, Verse 10

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य

उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः

Tara Sara Upanishad

Complete Upanishad, Verse 11

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः

शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै वै नमोनमः

Tara Sara Upanishad

Complete Upanishad, Verse 12

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः

शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः

Tara Sara Upanishad

Complete Upanishad, Verse 13

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो

भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः

Tara Sara Upanishad

Complete Upanishad, Verse 14

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो

लक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः

Tara Sara Upanishad

Complete Upanishad, Verse 15

ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता

भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः

Tara Sara Upanishad

Complete Upanishad, Verse 16

यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् ।

उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः

शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो

भरतः ५ कलास्वरूपो लक्ष्मणः ६ कलातीता भगवती सीता

चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः

परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य-

परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि

भूर्भुवः सुवस्तस्मै नमोनमः

Tara Sara Upanishad

Complete Upanishad, Verse 17

(विद्यापठनमन्त्रार्थज्ञानयोः फलम्)

एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति ।

स वायुपूतो

भवति ।

स आदित्यपूतो भवति ।

स स्थाणुपूतो भवति ।

स सर्वैर्देवैर्ज्ञातो

भवति ।

तेनेतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि

भवन्ति ।

श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्याः

शतसहस्रं जप्तं भवति ।

प्रणवानामयुतं जप्तं भवति ।

दशपूर्वान्दशोत्तरान्पुनाति ।

नारायणपदमवाप्नोति य एवं वेद ।

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।

दिवीव चक्षुराततम् ।

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।

विष्णोर्यत्परमं पदम् ॥

इत्युपनिषत् ॥

सामवेदस्तृतीयः पादः