Taittiriya Upanishad, Verse 1
तैत्तिरीयोपनिषत् सस्वरा
प्रथमा शीक्षावल्ली
ॐ श्री गुरुभ्यो नमः ।
ह॒रिः॒ ॐ ।
ॐ शं नो॑ मि॒त्रः शं वरु॑णः ।
शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ ।
शं नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे ।
नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि ।
ऋ॒तं व॑दिष्यामि ।
स॒त्यं व॑दिष्यामि ।
तन्माम॑वतु ।
तद्व॒क्तार॑मवतु ।
अव॑तु॒ माम् ।
अव॑तु व॒क्तारम्᳚ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑