अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वेऽस्तं
गच्छन्तीति ॥
तस्मै स होवाच चक्षुरेवाप्येति
यच्चक्षुरेवास्तमेति द्रष्टव्यमेवप्येति यो
द्रष्टव्यमेवास्तमेत्यादित्यमेवाप्येति य आदित्यमेवास्तमेति
विराजमेवाप्येति यो विराजमेवास्तमेति प्राणमेवाप्येति यः
प्राणमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमे-
त्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति
यस्तुरीयमेवास्तमेति तदमृतमभयमशोकमनन्त-
निर्बीजमेवाप्येतीति होवाच ॥
श्रोत्रमेवाप्येति यः श्रोत्रमेवास्तमेति श्रोतव्यएवाप्येति
यः श्रोतव्यमेवास्तमेति दिशमेवाप्येति यो दिशमेवास्तमेति
सुदर्शनामेवाप्येति यः सुदर्शनामेवास्तमेत्यपानमेवाप्येति
योऽपानमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमेति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
नासमेवाप्येति यो नासामेवास्तमेति घ्रातव्यमेवाप्येति
यो घ्रातव्यमेवास्तमेति पृथिविमीवाप्येति यः पृथिवीएवास्तमेति
जितामेवाप्येति यो जितामेवास्तमेति व्यानमेवाप्येति यो
व्यानमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
जिह्वामेवाप्येति यो जिह्वामेवास्तमेति रसयितव्यमेवाप्येति
यो रसयितव्यमेवास्तमेति वरुणमेवाप्येति यो वरुणमेवास्तमेति
सौम्यामेवाप्येति यः सौम्यामेवास्तमेत्युदानमेवाप्येति
य उअदानमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
त्वचमेवाप्येति यस्त्वचमेवास्तमेति स्पर्शयितव्यमेवाप्येति
यः स्पर्शैतव्यमेवास्तमेति वायुमेवाप्येति यो वायुमेवास्तमेति
मोधामेवाप्येति यो मोधामेवास्तमेति समानमेवाप्येति
यः समानमेवास्तमेति विज्ञानएवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
वाचमेवाप्येति यो वाचमेवास्तमेति वक्तव्यमेवाप्येति
यो वक्तव्यमेवास्तमेत्यग्निमेवाप्येति योऽग्निमेवास्तमेति
कुमारामेवाप्येति यः कुमारामेवास्तमेति वैरम्भ-
मेवाप्येति यो वैरम्भमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
हस्तमेवाप्येति यो हस्तमेवास्तमेत्यादातव्यमेवाप्येति
य आदातव्यमेवास्तमेतीन्द्रमेवाप्येति य इन्द्रमेवास्त-
मेत्यमृतामेवाप्येति योऽमृतामेवास्तमेति मुख्यमेवाप्येति
यो मुख्यमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
पादमेवाप्येति यः पादमेवास्तमेति गन्तव्यमेवाप्येति
यो गन्तव्यमेवास्तमेति विष्णुमेवाप्येति यो विष्णुमेवास्तमेति
सत्यामेवाप्येति यः सत्यामेवास्तमेत्त्यन्तर्याममेवाप्येति
योऽन्तर्याममेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
पायुमेवाप्येति यः पायुमेवास्तमेति विसर्जयितव्यमेवाप्येति
यो विसर्जयितव्यमेवास्तमेति मृत्युमेवाप्येति यो मृत्युमेवास्तमेति
मध्यमामेवाप्येति यो मध्यमामेवास्तमेति
प्रभञ्जनमेवाप्येति यः प्रभञ्जनमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
उपस्थमेवाप्येति य उपस्थमेवास्तमेत्यानन्दयितव्यमेवाप्येति
य आनन्दयितव्यमेवास्तमेति प्रजापतिमेवाप्येति यः प्रजापति-
मेवास्तमेति नासीरामेवाप्येति यो नासीरामेवास्तमेति
कुमारमेवाप्येति यः कुमारमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
मन एवाप्येति यो मन एवास्तमेति मन्तव्यमेवाप्येति
यो मन्तव्यमेवास्तमेति चन्द्रमेवाप्येति यश्चन्द्रमेवास्तमेति
शिशुमेवाप्येति यः शिशुमेवास्तमेति श्येनमेवाप्येति यः
श्येनमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
बुद्धिमेवाप्येति यो बुद्धिमेवास्तमेति बोद्धव्यमेवाप्येति
यो बोद्धव्यमेवास्तमेति ब्रह्माणमेवाप्येति यो
ब्रह्माणमेवास्तमेति सूर्यामेवास्तमेति यः सूर्यामेवास्तमेति
कृष्णमेवाप्येति यः कृष्णमेवास्तमेति विज्ञानमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
अहङ्कारमेवाप्येति योऽहङ्कारमेवास्तमे-
त्यहङ्कर्तव्यमेवाप्येति योऽहङ्कर्तव्यमेवास्तमेति
रुद्रमेवाप्येति यो रुद्रमेवास्तमेत्यसुरामेवाप्येति
योऽसुरामेवास्तमेति श्वेतमेवाप्येति यः श्वेतमेवास्तमेति
विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्त-
निर्बीजमेवाप्येतीति होवाच ॥
चित्तमेवाप्येति यश्चित्तमेवास्तमेति चेतयितव्यमेवाप्येति
यश्चेतयितव्यमेवास्तमेति क्षेत्रज्ञमेवाप्येति यः
क्षेत्रज्ञमेवास्तमेति भास्वतीमेवाप्येति यो भास्वती-
मेवास्तमेति नागमेवाप्येति यो नागमेवास्तमेति विज्ञान-
मेवाप्येति यो विज्ञामेवास्तमेत्यानन्दमेवाप्येति य
आनन्दमेवास्तमेति तुरीयमेवाप्येति यस्तुरीयमेवास्तमेति
तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति
तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥
य एवं निर्बीजं वेद निर्बीज एव स भवति न जायते
न म्रियते न मुह्यते न भिद्यते न दह्यते न छिद्यते
न कम्पते न कुप्सते सर्वदहनोऽयमात्मेत्याचक्षते
नैवमात्मा प्रवचनशतेनापि लभ्यते न बहुश्रुतेन
न बुद्धिज्ञानाश्रितेन न मेधया न वेदैर्न यज्ञैर्न
तपोभिरुग्रैर्न सांख्यैर्न योगैर्नाश्रमैर्नान्यैरात्मा-
नमुपुलभन्ते प्रवचनेन प्रशंसया व्युत्थानेन तमेतं
ब्राह्मणा शुश्रुवांसोऽनूचाना उपलभन्ते शान्तो
दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं
पश्यति सर्वस्यात्मा भवति य एवं वेद ॥
इति नवमः खण्डः