Skanda Upanishad

Complete Upanishad

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Skanda Upanishad

Complete Upanishad, Verse 1

स्कन्दोपनिषत् ५१

यत्रासंभवतां याति स्वातिरिक्तभिदाततिः ।

।

संविन्मात्रं परं ब्रह्म तत्स्वमात्रं विजृम्भते ॥

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अच्युतोऽस्मि महादेव तव कारुण्यलेशतः ।

विज्ञानघन एवास्मि शिवोऽस्मि किमतः परम्

Skanda Upanishad

Complete Upanishad, Verse 2

न निजं निजवद्भाति अन्तःकरणजृम्भणात् ।

अन्तःकरणनाशेन संविन्मात्रस्थितो हरिः

Skanda Upanishad

Complete Upanishad, Verse 3

संविन्मात्रस्थितश्चाहमजोऽस्मि किमतः परम् ।

व्यतिरिक्तं जडं सर्वं स्वप्नवच्च विनश्यति

Skanda Upanishad

Complete Upanishad, Verse 4

चिज्जडानां तु यो द्रष्टा सोऽच्युतो ज्ञानविग्रहः ।

स एव हि महादेवः स एव हि महाहरिः

Skanda Upanishad

Complete Upanishad, Verse 5

स एव हि ज्योतिषां ज्योतिः स एव परमेश्वरः ।

स एव हि परं ब्रह्म तद्ब्रह्माहं न संशयः

Skanda Upanishad

Complete Upanishad, Verse 6

जीवः शिवः शिवो जीवः स जीवः केवलः शिवः ।

तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः

Skanda Upanishad

Complete Upanishad, Verse 7

एवं बद्धस्तथा जीवः कर्मनाशे सदाशिवः ।

पाशबद्धस्तथा जीवः पाशमुक्तः सदाशिवः

Skanda Upanishad

Complete Upanishad, Verse 8

शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ।

शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः

Skanda Upanishad

Complete Upanishad, Verse 9

यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः ।

यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषि

Skanda Upanishad

Complete Upanishad, Verse 10

यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा ।

देहो देवालयः प्रोक्तः स जीवः केवलः शिवः

Skanda Upanishad

Complete Upanishad, Verse 11

त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ।

अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः ।

स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः

Skanda Upanishad

Complete Upanishad, Verse 12

ब्रह्मामृतं पिबेद्भैक्ष्यमाचरेद्देहरक्षणे ।

वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।

इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात्

Skanda Upanishad

Complete Upanishad, Verse 13

श्रीपरमधाम्ने स्वस्ति चिरायुष्योन्नम इति ।

विरिञ्चिनारायणशङ्करात्मकं नृसिंह देवेश तव

प्रसादतः ।

अचिन्त्यमव्यक्तमनन्तमव्ययं वेदात्मकं ब्रह्म निजं विजानते

Skanda Upanishad

Complete Upanishad, Verse 14

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।

दिवीव चक्षुराततम्

Skanda Upanishad

Complete Upanishad, Verse 15

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।

विष्णोर्यत्परमं

पदम् ।

इत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति

वेदानुशासनमित्युपनिषत्