Sita Upanishad

Complete Upanishad

Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.

Sita Upanishad

Complete Upanishad, Verse 1

सीतोपनिषत्

Sita Upanishad

Complete Upanishad, Verse 2

इच्छाज्ञानक्रियाशक्तित्रयं यद्भावसाधनम् ।

तद्ब्रह्मसत्तासामान्यं सीतातत्त्वमुपास्महे ॥

Sita Upanishad

Complete Upanishad, Verse 3

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।

व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

Sita Upanishad

Complete Upanishad, Verse 4

देवा ह वै प्रजापतिमब्रुवन्का सीता किं रूपमिति ।

स होवाच प्रजापतिः सा सीतेति ।

मूलप्रकृतिरूपत्वात्सा

सीता प्रकृतिः स्मृता ।

प्रणवप्रकृतिरूपत्वात्सा सीता

प्रकृतिरुच्यते ।

सीता इति त्रिवर्णात्मा साक्षान्मायामयी

भवेत् ।

विष्णुः प्रपञ्चबीजं च माया ईकार उच्यते ।

सकारः सत्यममृतं प्राप्तिः सोमश्च कीर्त्यते ।

तकारस्तारलक्ष्म्या च वैराजः प्रस्तरः स्मृतः ।

ईकाररूपिणी सोमामृतावयवदिव्यालङ्कारस्रङ्मौक्तिका-

द्याभरणलङ्कृता महामायाऽव्यक्तरूपिणी व्यक्ता भवति ।

प्रथमा शब्दब्रह्ममयी स्वाध्यायकाले प्रसन्ना

उद्भावनकरी सात्मिका द्वितीया भूतले हलाग्रे समुत्पन्ना

तृतीया ईकाररूपिणी अव्यक्तस्वरूपा भवतीति सीता

इत्युदाहरन्ति ।

शौनकीये ।

श्रीरामसान्निध्यवशा-

ज्जगदानन्दकारिणी ।

उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ।

सीता भगवती ज्ञेया मूलप्रकृतिसंज्ञिता ।

प्रणवत्वा-

त्प्रकृरिति वदन्ति ब्रह्मवादिन इति ।

अथातो ब्रह्मजिज्ञासेति च ।

सा सर्ववेदमयी सर्वदेवमयी सर्वलोकमयी सर्वकीर्तिमयी

सर्वधर्ममयी सर्वाधारकार्यकारणमयी महालक्ष्मी-

र्देवेशस्य भिन्नाभिन्नरूपा चेतनाचेतनात्मिका

ब्रह्मस्थावरात्मा तद्गुणकर्मविभागभेदाच्छरीरूपा

देवर्षिमनुष्यगन्धर्वरूपा असुरराक्षसभूतप्रेत-

पिशाचभूतादिभूतशरीरूपा भूतेन्द्रियमनःप्राणरूपेति

च विज्ञायते ।

सा देवी त्रिविधा भवति शक्त्यासना इच्छाशक्तिः

क्रियाशक्तिः साक्षाच्छक्तिरिति ।

इच्छाशक्तिस्त्रिविधा

भवति ।

श्रीभूमिनीलात्मिका भद्ररूपिणी प्रभावरूपिणी

सोमसूर्याग्निरूपा भवति ।

सोमात्मिका ओषधीनां

प्रभवति कल्पवृक्षपुष्पफललतागुल्मात्मिका

औषधभेषजात्मिका अमृतरूपा देवानां महस्तोम-

फलप्रदा अमृतेन तृप्तिं जनयन्ती देवानामन्नेन

पशूनां तृणेन तत्तज्जीवानां सूर्यादिसकलभुवन-

प्रकाशिनी दिवा च रात्रिः कालकलानिमेषमारभ्य

घटिकाष्टयामदिवस(वार)रात्रिभेदेन

पक्षमासर्त्वयनसंवत्सरभेदेन मनुष्याणां

शतायुःकल्पनया प्रकाशमाना चिरक्षिप्रव्यपदेशेन

निमेषमारभ्य परार्धपर्यन्तं कालचक्रं

जगच्चक्रमित्यादिप्रकारेण चक्रवत्परिवर्तमानाः

सर्वस्यैतस्यैव कालस्य विभागविशेषाः प्रकाशरूपाः

कालरूपा भवन्ति ।

अग्निरूपा अन्नपानादिप्राणिनां

क्षुत्तृष्णात्मिका देवानां मुखरूपा वनौषधीनां

शीतोष्णरूपा काष्ठेष्वन्तर्बहिश्च नित्यानित्यरूपा

भवति ।

श्रीदेवी त्रिविधं रूपं कृत्वा भगवत्सङ्कल्पानु-

गुण्येन लोकरक्षणार्थं रूपं धारयति ।

श्रीरिति लक्ष्मीरिति

लक्ष्यमाणा भवतीति विज्ञायते ।

भूदेवी ससागरांभः-

सप्तद्वीपा वसुन्धरा भूरादिचतुर्दशभुवनाना-

माधाराधेया प्रणवात्मिका भवति ।

नीला च मुख-

विद्युन्मालिनी सर्वौषधीनां सर्वप्राणिनां पोषणार्थं

सर्वरूपा भवति ।

समस्तभुवनस्याधोभागे जलाकारात्मिका

मण्डूकमयेति भुवनाधारेति विज्ञायते ॥

Sita Upanishad

Complete Upanishad, Verse 5

क्रियाशक्तिस्वरूपं हरेर्मुखान्नादः ।

तन्नादाद्बिन्दुः ।

बिन्दोरोङ्कारः ।

ओङ्कारात्परतो राम वैखानसपर्वतः ।

तत्पर्वते कर्मज्ञानमयीभिर्बहुशाखा भवन्ति ।

तत्र

त्रयीमयं शास्त्रमाद्यं सर्वार्थदर्शनम् ।

ऋग्यजुःसामरूपत्वात्त्रयीति परिकीर्तिता ।

कार्यसिद्धेन चतुर्धा

परिकीर्तिता ।

ऋचो यजूंषि सामानि अथर्वाङ्गिरसस्तथा ।

चातुर्होत्रप्रधानत्वाल्लिङ्गादित्रितयं त्रयी ।

अथर्वाङ्गिरसं

रूपं सामऋग्यजुरात्मकम् ।

तथा दिशन्त्याभिचार-

सामान्येन पृथक्पृथक् ।

एकविंशतिशाखायामृग्वेदः

परिकीर्तितः ।

शतं च नवशाखासु यजुषामेव जन्मनाम् ।

साम्नः सहस्रशाखाः स्युः पञ्चशाखा अथर्वणः ।

वैखानसमतस्तस्मिन्नादौ प्रत्यक्षदर्शनम् ।

स्मर्यते

मुनिभिर्नित्यं वैखानसमतः परम् ।

कल्पो व्याकरणं शिक्षा

निरुक्तं ज्योतिषं छन्द एतानि षडङ्गानि ॥

Sita Upanishad

Complete Upanishad, Verse 6

उपाङ्गमयनं चैव मीमांसान्यायविस्तरः ।

धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा ।

निबन्धाः सर्वशाखा च समयाचारसङ्गतिः ।

धर्मशास्त्रं महर्षिणामन्तःकरणसम्भृतम् ।

इतिहासपुराणाख्यमुपाङ्गं च प्रकीर्तितम् ।

वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने ।

आयुर्वेदश्च पञ्चैते उपवेदाः प्रकीर्तिताः ।

दण्डो नीतिश्च वार्ता च विद्या वायुजयः परः ।

एकविंशतिभेदोऽयं स्वप्रकाशः प्रकीर्तितः ।

वैखानसऋषेः पूर्वं विष्णोर्वाणी समुद्भवेत् ।

त्रयीरूपेण सङ्कल्प्य वैखानसऋषेः पुरा ।

उदितो यादृशः पूर्वं तादृशं श‍ृणु मेऽखिलम् ।

शश्वद्ब्रह्ममयं रूपं क्रियाशक्तिरुदाहृता ।

साक्षाच्छक्तिर्भगवतः स्मरणमात्ररूपाविर्भाव-

प्रादुर्भावात्मिका निग्रहानुग्रहरूपा भगवत्सहचारिणी

अनपायिनी अनवरतसहाश्रयिणी उदितानुदिताकारा

निमेषोन्मेषसृष्टिस्थितिसंहारतिरोधानानुग्रहादि-

सर्वशक्तिसामर्थ्यात्साक्षाच्छक्तिरिति गीयते ।

इच्छाशक्तिस्त्रिविधा प्रलयावस्थायां विश्रमणार्थं

भगवतो दक्षिणवक्षःस्थले श्रीवत्साकृतिर्भूत्वा

विश्राम्यतीति सा योगशक्तिः ।

भोगशक्तिर्भोगरूपा

कल्पवृक्षकामधेनुचिन्तामणिशङ्खपद्म-

निध्यादिनवनिधिसमाश्रिता भगवदुपासकानां

कामनया अकामनया वा भक्तियुक्ता नरं

नित्यनैमित्तिककर्मभिरग्निहोत्रादिभिर्वा यमनियमासन-

प्राणायामप्रत्याहारध्यानधारणासमाधिभि-

र्वालमणन्वपि गोपुरप्राकारादिभिर्विमानादिभिः सह

भगवद्विग्रहार्चापूजोपकरणैरर्चनैः स्नानाधिपर्वा

पितृपूजादिभिरन्नपानादिभिर्वा भगवत्प्रीत्यर्थमुक्त्वा

सर्वं क्रियते ।

अथातो वीरशक्तिश्चतुर्भुजाऽभयवरद-

पद्मधरा किरीटाभरणयुता सर्वदेवैः परिवृता

कल्पतरुमूले चतुर्भिर्गजै रत्नघटैरमृतजलै-

रभिषिच्यमाना सर्वदैवतैर्ब्रह्मादिभिर्वन्द्यमाना

अणिमाद्यष्टैश्वर्ययुता संमुखे कामधेनुना

स्तूयमाना वेदशास्त्रादिभिः स्तूयमाना जयाद्यप्सर-

स्स्त्रीभिः परिचर्यमाणा आदित्यसोमाभ्यां दीपाभ्यां

प्रकाश्यमाना तुम्बुरुनारदादिभिर्गायमाना

राकासिनीवालीभ्यां छत्रेण ह्लादिनीमायाभ्यां चामरेण

स्वाहास्वधाभ्यां व्यजनेन भृगुपुणादिभिरभ्यर्च्यमाना

देवी दिव्यसिंहासने पद्मासनरूढा सकलकारणकार्यकरी

लक्ष्मीर्देवस्य पृथग्भवनकल्पना ।

अलंचकार स्थिरा

प्रसन्नलोचना सर्वदेवतैः पूज्यमाना वीरलक्ष्मीरिति

विज्ञायत इत्युपनिषत् ॥

Sita Upanishad

Complete Upanishad, Verse 7

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।

व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

Sita Upanishad

Complete Upanishad, Verse 8

ॐ शान्तिः शान्तिः शान्तिः ॥

Sita Upanishad

Complete Upanishad, Verse 9

इति सीतोपनिषत्समाप्ता ॥