Shvetashvatara Upanishad, Verse 1
श्वेताश्वतरोपनिषत्
ॐ सहनाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु ।
मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
प्रथमोऽध्यायः ।
हरिः ॐ ॥
ब्रह्मवादिनो वदन्ति ।
किं कारणं ब्रह्म कुतः स्म जाता
जीवाम केन क्व च सम्प्रतिष्ठा ।
अधिष्ठिताः केन सुखेतरेषु
वर्तामहे ब्रह्मविदो व्यवस्थाम्