Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं

Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.४३. त्रिचत्वारिंशोऽध्यायः ।

मेनामोहनाय शिवकृताद्भुतलीलावर्णनम् ।

मेनोवाच ।

निरीक्षिष्यामि प्रथमं मुने तं गिरिजापतिम् ।

कीदृशं शिवरूपं हि यदर्थे तप उत्तमम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 2

ब्रह्मोवाच ।

इत्यज्ञानपरा सा च दर्शनार्थं शिवस्य च ।

त्वया मुने समं सद्यश्चन्द्रशालां समागता ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 3

शिवोऽपि च तदा तस्यां ज्ञात्वाहङ्कारमात्मनः ।

प्राह विष्णुं च मां तात लीलां कृत्वाद्भुतां प्रभुः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 4

शिव उवाच ।

मदाज्ञया युवां तातौ सदेवौ च पृथक्पृथक् ।

गच्छतं हि गिरिद्वारं वयं पश्चाद् व्रजेमहि ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 5

ब्रह्मोवाच ।

इत्याकर्ण्य हरिः सर्वानाहूयोवाच तन्मयाः ।

सुराः सर्वे तथैवाशु गमनं चक्रुरुत्सुकाः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 6

स्थितां शिरोगृहे मेनां मुने विश्वेश्वरस्त्वया ।

तथैव दर्शयामास हृद्विभ्रंशो यथा भवेत् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 7

एतस्मिन् समये मेना सेनां च परमां शुभाम् ।

निरीक्षन्ती मुने दृष्ट्वा सामान्यं हर्षिताभवत् ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 8

प्रथमं चैव गन्धर्वाः सुन्दराः सुभगास्तदा ।

आयाताः शुभवस्त्राढ्या नानालङ्कारभूषिताः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 9

नानावाहनसंयुक्ता नानावाद्यपरायणाः ।

पताकाभिर्विचित्राभिरप्सरोगणसंयुताः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 10

अथ दृष्ट्वा वसुं तत्र तत्पतिं परमप्रभुम् ।

मेना प्रहर्षिता ह्यासीच्छिवोऽयमिति चाब्रवीत् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 11

शिवस्य गणका एते न शिवोऽयं शिवापतिः ।

इत्येवं त्वं ततस्तां वै अवोच ऋषिसत्तम ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 12

एवं श्रुत्वा तदा मेना विचारे तत्पराभवत् ।

इतश्चाभ्यधिको यो वै स च कीदृग्भविष्यति ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 13

एतस्मिन्नन्तरे यक्षा मणिग्रीवादयश्च ये ।

तेषां सेना तया दृष्टा शोभादि द्विगुणीकृता ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 14

तत्पतिं च मणिग्रीवं दृष्ट्वा शोभान्वितं हि सा ।

अयं रुद्रः शिवास्वामी मेना प्राहेति हर्षिता ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 15

नायं रुद्रः शिवास्वामी सेवकोऽयं शिवस्य वै ।

इत्यवोचोऽगपत्न्यै त्वं तावद्वह्निः स आगतः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 16

ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।

रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 17

तावद्यमः समायातः ततोऽपि द्विगुणप्रभः ।

तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 18

नेति त्वमब्रवीस्तां वै तावन्निरृतिरागतः ।

बिभ्राणो द्विगुणां शोभां शुभः पुण्यजनप्रभुः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 19

तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।

नेति त्वमब्रवीस्तां वै तावद्वरुण आगतः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 20

ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।

रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 21

तावद्वायुः समायातः ततोऽपि द्विगुणप्रभः ।

तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 22

नेति त्वमब्रवीस्तां वै तावद्धनद आगतः ।

ततोऽपि द्विगुणां शोभां बिभ्राणो गुह्यकाधिपः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 23

तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।

नेति त्वमब्रवीस्तां वै तावदीशान आगतः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 24

ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ।

रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 25

तावदिन्द्रः समायातः ततोऽपि द्विगुणप्रभः ।

सर्वामरवरो नानादिव्यभास्त्रिदिवेश्वरः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 26

तं दृष्ट्वा शङ्करः सोऽयमिति सा प्राह मेनका ।

शक्रः सुरपतिश्चायं स नेति त्वं तदाब्रवीः ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 30: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं, Verse 27

तावच्चन्द्रः समायातः शोभां तद्द्विगुणां दधत् ।

दृष्ट्वा तं प्राह रुद्रोऽयं तां तु नेति त्वमब्रवीः ॥ २७॥