Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं

Containing 92 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.४१. एकचत्वारिंशोऽध्यायः ।

विवाहमण्डपं दृष्ट्वादेवानां मोहवर्णनम् ।

ब्रह्मोवाच ।

ततः सम्मन्त्र्य च मिथः प्राप्याज्ञां शाङ्करीं हरिः ।

मुने त्वां प्रेषयामास प्रथमं कुधरालयम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.४२. द्विचत्वारिंशोऽध्यायः ।

देवगिरिमिलापवर्णनम् ।

ब्रह्मोवाच ।

अथाकर्ण्य गिरीशश्च निजपुर्युपकण्ठतः ।

प्राप्तमीशं सर्वगं वै मुमुदेऽति हिमालयः ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 2

अथ प्रणम्य सर्वेशं गतस्त्वं नारदाग्रतः ।

हरिणा नोदितः प्रीत्या हिमाचलगृहं प्रति ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 2

अथ सम्भृतसम्भारः सम्भाषां कर्तुमीश्वरम् ।

शैलान्प्रस्थापयामास ब्राह्मणानपि सर्वशः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 3

त्वं मुनेऽपश्य आत्मानं गत्वा तद्व्रीडयान्वितम् ।

कृत्रिमं रचितं तत्र विस्मितो विश्वकर्मणा ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 3

स्वयं जगाम सद्भक्त्या प्राणेप्सुं द्रष्टुमीश्वरम् ।

भक्त्युद्रुतमनाः शैलः प्रशंसन् स्वविधिं मुदा ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 4

श्रान्तस्त्वमात्मना तेन कृत्रिमेण महामुने ।

अवलोकपरः सोऽभूच्चरितं विश्वकर्मणः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 4

देवसेनां तदा दृष्ट्वा हिमवान्विस्मयं गतः ।

जगाम सम्मुखस्तत्र धन्योऽहमिति चिन्तयन् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 5

प्रविष्टो मण्डपं तस्य हिमाद्रे रत्नचित्रितम् ।

सुवर्णकलशैर्जुष्टं रम्भादिबहुशोभितम् ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 5

देवा हि तद्बलं दृष्ट्वा विस्मयं परमं गताः ।

आनन्दं परमं प्रापुर्देवाश्च गिरयस्तथा ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 6

सहस्रस्तम्भसंयुक्तं विचित्रं परमाद्भुतम् ।

वेदिकां च तथा दृष्ट्वा विस्मयं त्वं मुने ह्ययाः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 6

पर्वतानां महासेना देवानां च तथा मुने ।

मिलित्वा विरराजेव पूर्वपश्चिमसागरौ ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 7

तदावोचश्च स मुने नारद त्वं नगेश्वरम् ।

विस्मितोऽतीव मनसि नष्टज्ञानो विमूढधीः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 7

परस्परं मिलित्वा ते देवाश्च पर्वतास्तथा ।

कृतकृत्यं तथात्मानं मेनिरे परया मुदा ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 8

आगतास्ते किमधुना देवा विष्णुपुरोगमाः ।

तथा महर्षयः सर्वे सिद्धा उपसुरास्तथा ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 8

अथेश्वरं पुरो दृष्ट्वा प्रणनाम हिमालयः ।

सर्वे प्रणेमुर्गिरयो ब्राह्मणाश्च सदाशिवम् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 9

महादेवो वृषारूढो गणैश्च परिवारितः ।

आगतः किं विवाहार्थं वद तथ्यं नगेश्वर ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 9

वृषभस्थं प्रसन्नास्यं नानाभरणभूषितम् ।

दिव्यावयवलावण्यप्रकाशितदिगन्तरम् ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 10

ब्रह्मोवाच ।

इत्येवं वचनं श्रुत्वा तव विस्मितचेतसः ।

उवाच त्वां मुने तथ्यं वाक्यं स हिमवान् गिरिः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 10

सुसूक्ष्माहतसत्पट्टवस्त्रशोभितविग्रहम् ।

सद्रत्नविलसन्मौलिं विहसन्तं शुचिप्रभम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 11

हिमवानुवाच ।

हे नारद महाप्राज्ञागतो नैवाधुना शिवः ।

विवाहार्थं च पार्वत्याः सगणः सवरातकः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 11

भूषाभूताहियुक्ताङ्गमद्भुतावयवप्रभम् ।

दिव्यद्युतिं सुरेशैश्च सेवितं करचामरैः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 12

विश्वकर्मकृतं चित्रं विद्धि नारद सद्धिया ।

विस्मयं त्यज देवर्षे स्वस्थो भव शिवं स्मर ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 12

वामस्थिताच्युतं दक्षभागस्थितविधिं प्रभुम् ।

पृष्ठस्थितहरिं पृष्ठपार्श्वस्थितसुरादिकम् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 13

भुक्त्वा विश्रम्य सुप्रीतः कृपां कृत्वा ममोपरि ।

मैनाकादिधरैः सार्धं गच्छ त्वं शङ्करान्तिकम् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 13

नानाविधसुराद्यैश्च संस्तुतं लोकशङ्करम् ।

स्वहेत्वात्ततनुं ब्रह्म सर्वेशं वरदायकम् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 29: रुद्रसंहितायां तृतीये पार्वतीखण्डे देवगिरिमिलापवर्णनं, Verse 14

एभिस्समेतो गिरिभिर्महामते सम्प्रार्थ्य शीघ्रं शिवमत्र चानय ।

देवैः समेतं च महर्षिसङ्घैः सुरासुरैरर्चितपादपल्लवम् ॥ १४॥