२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 28: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 170 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.३८. अष्टत्रिंशोऽध्यायः ।
विवाहमण्डपादिरचनावर्णनम् ।
ब्रह्मोवाच ।
अथ शैलेश्वरः प्रीतो हिमवान्मुनिसत्तम ।
स्वपुरं रचयामास विचित्रं परमोत्सवम् ॥ १॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.३९. एकोनचत्वारिंशोऽध्यायः ।
शिववरयात्रावर्णनम् ।
नारद उवाच ।
विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते ।
अद्भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे ॥ १॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.४०. चत्वारिंशोऽध्यायः ।
हिमगिरिगृहेशिवस्यागमनवर्णनम् ।
ब्रह्मोवाच ।
अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् ।
आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः ।
द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम् ॥ २॥
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ।
वैवाहिकं सुमाङ्गल्यं सर्वाघौघविनाशनम् ॥ २॥
शिव उवाच ।
अपि यूयं सह मया सङ्गच्छध्वं गिरेः पुरम् ।
कियद्गणानिहास्थाप्य महोत्सवपुरस्सरम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
प्राङ्गणं रचयामास रम्भास्तम्भसमन्वितम् ।
पट्टसूत्रैः सन्निबद्धं रसालपल्लवान्वितम् ॥ ३॥
किं चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ।
तां श्रावय कथां दिव्यां शङ्करस्य परात्मनः ॥ ३॥
ब्रह्मोवाच ।
अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा ।
स्वं स्वं बलमुपादाय तान् कथञ्चिद्वदाम्यहम् ॥ ३॥
मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् ।
शोभितं मङ्गलद्रव्यैश्चतुर्दिक्षु स्थितैः शुभैः ॥ ४॥
ब्रह्मोवाच ।
शृणु वत्स महाप्राज्ञ शाङ्करं परमं यशः ।
यच्चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ॥ ४॥
अभ्यगाच्छङ्खकर्णश्च गणकोट्या गणेश्वरः ।
शिवेन सार्धं सङ्गन्तुं हिमाचलपुरं प्रति ॥ ४॥
तथैव सर्वं परया मुदान्वित- श्चक्रे गिरीन्द्रः स्वसुतार्थमेव ।
गर्गं पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमङ्गलं हि ॥ ५॥
अथ शम्भुर्गृहीत्वा तां मुदा मङ्गलपत्रिकाम् ।
विजहास प्रहृष्टात्मा मानं तेषां व्यधाद्विभुः ॥ ५॥
दशकोट्या केकराक्षो गणानां स महोत्सवः ।
अष्टकोट्या च विकृतो गणानां गणनायकः ॥ ५॥
आहूय विश्वकर्माणं कारयामास सादरम् ।
मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ॥ ६॥
वाचयित्वा च तां सम्यग्स्वीचकार विधानतः ।
तज्जनान्यापयामास बहुसम्मान्य चादृतः ॥ ६॥
चतुष्कोट्या विशाखश्च गणानां गणनायकः ।
पारिजातश्च नवभिः कोटिभिर्गणपुङ्गवः ॥ ६॥
अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् ।
अनेकलक्षणोपेतं नानाश्चर्यसमन्वितम् ॥ ७॥
उवाच मुनिवर्गांस्तान्कार्यं सम्यक् कृतं शुभम् ।
आगन्तव्यं विवाहे मे विवाहः स्वीकृतो मया ॥ ७॥
षष्टिः सर्वान्तकः श्रीमान् तथैव विकृताननः ।
गणानां दुन्दुभोऽष्टाभिः कोटिभिर्गणनायकः ॥ ७॥
स्थावरं जङ्गमं सर्वं सदृशं तैर्मनोहरम् ।
सर्वतोऽद्भुतसर्वस्वं नानावस्तुचमत्कृतम् ॥ ८॥
इत्याकर्ण्य वचः शम्भोः प्रहृष्टास्ते प्रणम्य तम् ।
परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिं परम् ॥ ८॥
पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा ।
षड्भिस्सन्दारको वीरो गणानां कोटिभिर्मुने ॥ ८॥
जङ्गमं विजितं तत्र स्थावरेण विशेषतः ।
जङ्गमेन च तत्रासीज्जितं स्थावरमेव हि ॥ ९॥
अथ देवेश्वरः शम्भुः सामरस्तवां मुने द्रुतम् ।
लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः ॥ ९॥
कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ।
विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा ॥ ९॥