२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 27: रुद्रसंहितायां तृतीये पार्वतीखण्डे लग्नपत्रसम्प्रेषणसामग्रीसङ्ग्रहशैलागमनवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.३७. सप्तत्रिंशोऽध्यायः ।
पार्वतीविवाहसम्भारसङ्ग्रहवर्णनम् ।
नारद उवाच ।
तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च ।
किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
ब्रह्मोवाच ।
गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर ।
सारुन्धतीषु हिमवान् यदकार्षीद् ब्रवीमि ते ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः ।
महामनाः स मुमुदे हिमवान् पर्वतेश्वरः ॥ ३॥
तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्नपत्रिकाम् ।
लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा ॥ ४॥
अथ प्रस्थापयामास तां शिवाय स पत्रिकाम् ।
नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः ॥ ५॥
ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् ।
ददुः शिवाय तत्पत्रं तिलकं संविधाय च ॥ ६॥
सम्मानिता विशेषेण प्रभुणा च यथोचितम् ।
सर्वे ते प्रीतिमनस आजग्मुः शैलसन्निधिम् ॥ ७॥
सम्मानितान्विशेषेण महेशेनागतान् जनान् ।
दृष्ट्वा सुहर्षितान् शैलो मुमोदातीव चेतसि ॥ ८॥
ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः ।
नानादेशस्थितानां च निखिलानां सुखास्पदम् ॥ ९॥
ततः स कारयामास स्वन्नसङ्ग्रहमादरात् ।
नानाविधाश्च सामग्रीर्विवाहकरणोचिताः ॥ १०॥
तण्डुलानां बहून् शैलान् पृथुकानां तथैव च ।
गुडानां शर्कराणां च लवणानां तथैव च ॥ ११॥
क्षीराणां च घृतानां च दध्नां वापीश्चकार सः ।
यवादिधान्यपिष्टानां लड्डुकानां तथैव च ॥ १२॥
शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च ।
अमृतेक्षुरसानां च तत्र वापीश्चकार सः ॥ १३॥
बह्वीर्हैयङ्गवानां च ह्यासवानां तथैव च ।
नाना पक्वान्नसङ्घांश्च महास्वादुरसाँस्तथा ॥ १४॥
मणिरत्नप्रकाराणि सुवर्णरजतानि च ।
द्रव्याण्येतानि चान्यानि सङ्गृह्य विधिपूर्वकम् ॥ १६॥
मङ्गलं कर्तुमारेभे गिरिर्मङ्गलकृद्दिने ।
संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः ॥ १७॥
ता मङ्गलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् ।
पुरद्विजस्त्रियो हृष्टा लोकाचारं प्रचक्रिरे ॥ १८॥
नाना व्यञ्जनवस्तूनि गणदेवहितानि च ।
अमूल्यनानावस्त्राणि वह्निशौचानि यानि च ॥ १९॥
सोत्सवं विविधं तत्र सुमङ्गलपुरस्सरम् ।
हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमङ्गलम् ॥ १९॥
सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः ।
एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः ॥ २०॥
आजग्मुः सस्त्रियो हृष्टाः ससुताः सपरिच्छदाः ।
तदेव शृणु देवर्षे गिर्यागमनमादृतः ॥ २१॥
वर्णयामि समासेन शिवप्रीतिविवृद्धये ।
देवालयगिरिर्यो हि दिव्यरूपधरो महान् ॥ २२॥
नानारत्नपरिभ्राजत्समाजः सपरिच्छदः ।
नानामणिमहारत्नसारमादाय यत्नतः ॥ २३॥
सुवेषालङ्कृतः श्रीमान् जगाम स हिमालयम् ।
मन्दरः सर्वशोभाढ्यः सनारीतनयो गिरिः ॥ २४॥
सूपायनानि सङ्गृह्य जगाम विविधानि च ।
अस्ताचलोऽपि दिव्यात्मा सोपायन उदारधीः ॥ २५॥
बहुशोभासमायुक्त आजगाम मुदान्वितः ।
उदयाचल आदाय सद्रत्नानि मणीनपि ॥ २६॥
अत्युत्कृष्टपरीवार आजगाम महासुखी ।
मलयो गिरिराजो हि सपरीवार आदृतः ॥ २७॥