२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 26: रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिवचनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.३६. षट्त्रिंशोऽध्यायः ।
हिमालयस्य शिवाय कालीप्रदाननिश्चयवर्णनम् ।
ब्रह्मोवाच ।
वसिष्ठस्य वचः श्रुत्वा सगणोऽपि हिमालयः ।
विस्मितो भार्यया शैलानुवाच स गिरीश्वरः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
हिमालय उवाच ।
हे मेरो गिरिराट् सह्य गन्धमादन मन्दर ।
मैनाक विन्ध्य शैलेन्द्राः सर्वे शृणुत मद्वचः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
वसिष्ठो हि वदत्येवं किं मे कार्यं विचार्यते ।
यथा तथा च शंसध्वं निर्णीय मनसाखिलम् ॥ ३॥
ब्रह्मोवाच ।
तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते ।
प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः ॥ ४॥
शैला ऊचुः ।
अधुना किं विमर्शेन कृतं कार्यं तथैव हि ।
उत्पन्नेयं महाभाग देवकार्यार्थमेव हि ॥ ५॥
प्रदातव्या शिवायेति शिवस्यार्थेऽवतारिणी ।
अनयाराधितो रुद्रो रुद्रेण यदि भाषिता ॥ ६॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा वचस्तेषां मेर्वादीनां हिमाचलः ।
सुप्रसन्नतरोऽभूद् वै जहास गिरिजा हृदि ॥ ७॥
अरुन्धती च तां मेनां बोधयामास कारणात् ।
नानावाक्यसमूहेनेतिहासैर्विविधैरपि ॥ ८॥
अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः ।
मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च ॥ ९॥
अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च तान् ।
उवाच साञ्जलिः प्रीत्या प्रसन्नात्मा गतभ्रमः ॥ १०॥
हिमाचल उवाच ।
सप्तर्षयो महाभागा वचः शृणुत मामकम् ।
विस्मयो मे गतः सर्वः शिवयोश्चरितं श्रुतम् ॥ ११॥
मदीयं च शरीरं वै पत्नी मेना सुता सुताः ।
ऋद्धिः सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा ॥ १२॥
ब्रह्मोवाच ।
इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् ।
भूषयित्वा तदङ्गानि ऋष्युत्सङ्गे न्यवेशयत् ॥ १३॥
उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा ।
अयं भागो मया तस्मै दातव्य इति निश्चितम् ॥ १४॥
ऋषय ऊचुः ।
शङ्करो भिक्षुकस्तेऽथ स्वयं दाता भवान् गिरे ।
भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम् ॥ १५॥
हिमवन् शिखराणान्ते यद्धेतोः सदृशी गतिः ।
धन्यस्त्वं सर्वशैलानामधिपः सर्वतो वरः ॥ १६॥
ब्रह्मोवाच ।
एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः ।
आशिषं दत्तवन्तस्ते शिवाय सुखदा भव ॥ १७॥
स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ।
शुक्लपक्षे यथा चन्द्रो वर्धन्तां त्वद्गुणास्तथा ॥ १८॥
इत्युक्त्वा मुनयः सर्वे दत्त्वा ते गिरये मुदा ।
पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा ॥ १९॥
अरुन्धती तदा तत्र मेनां सा सुमुखी मुदा ।
गुणैश्च लोभयामास शिवस्य परमा सती ॥ २०॥
हरिद्राकुङ्कुमैः शैलश्मश्रूणि प्रत्यमार्जयत् ।
लौकिकाचारमाधाय मङ्गलायनमुत्तमम् ॥ २१॥
ततश्च ते चतुर्थेऽह्नि सन्धार्य लग्नमुत्तमम् ।
परस्परं च सन्तुष्य सञ्जग्मुः शिवसन्निधिम् ॥ २२॥
तत्र गत्वा शिवं नत्वा स्तुत्वा विविधसूक्तिभिः ।
ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम् ॥ २३॥
ऋषय ऊचुः ।
देवदेव महादेव परमेश महाप्रभो ।
शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव ॥ २४॥
बोधितो गिरिराजश्च मेना विविधसूक्तिभिः ।
सेतिहासं महेशान प्रबुद्धोऽसौ न संशयः ॥ २५॥
वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा ।
उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः ॥ २६॥
गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो ।
विवाहय यथा रीतिः पार्वतीमात्मजन्मने ॥ २७॥